SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ ज्योतिष्करण्डकम् मुहूर्त्तपरिमाणं नवशतात्मकमाढकानयनाय चतुर्भिर्गुण्यते, जातानि षट्त्रिंशच्छतानि ३६००, एतावन्तो मेयत्वचिंतायामाढकाः कर्ममासे, तोल्यत्वचिन्तायां प्रत्यहोरात्रं त्रयो भारा इति त्रिंशदहोरात्रास्त्रिभिर्गुण्यन्ते, जाता नवतिः, इयत्संख्याकाः कर्ममासे भारा: । तथा चन्द्रमासे एकोनत्रिंशदहोरात्रा द्वात्रिंशच्च द्वाषष्टिभागा अहोरात्रस्य तत एकोनत्रिंशद् मुहूर्त्तानयनार्थं त्रिंशता गुण्यन्ते, जातान्यष्टौ शतानि सप्तत्यधिकानि ८७०, येऽपि च द्वात्रिंशद् द्वाषष्टिभागास्तेऽपि मुहूर्त्तगतभागकरणार्थं त्रिंशता गुण्यन्ते, जातानि नव शतानि षष्ट्यधिकानि ९६०, एतेषां द्वाषष्ट्या भागो ह्रियते, लब्धाः पंचदश मुहूर्त्ताः शेषास्तिष्ठन्ति मुहूर्त्तस्य त्रिंशद् द्वाषष्टिभागाः, मुहूर्त्ताश्च मुहूर्त्तराशौ प्रक्षिप्यन्ते ततः सर्वसंकलनया जातानि चन्द्रमासे मुहूर्त्तानामष्टौ शतानि पंचाशीत्यधिकानि त्रिंशच्च द्वाषष्टिभागा मुहूर्त्तस्य ८८५ - ३० । ६२ एतदेव मुहूर्त्तपरिमाणं घटिकानयनाय द्वाभ्यां गुण्यते, जातानि सप्तदश शतानि सप्तत्यधिकानि षष्टिश्च द्वाषष्टिभागा घटिकायाः १७७०-६०।६२ एतावच्चन्द्रमासे घटिकापरिमाणं, तथा प्राक्तनमेव मुहूर्त्तपरिमाणं सकलमप्याढकानयनाय चतुर्भिर्गुण्यते, जातानि पंचत्रिंशच्छतानि एकचत्वारिंशदधिकानि अष्टापंचाशच्च द्वाषष्टिभागा आढकस्य ३५४१-५८ । ६२, एतावन्मेयत्वचिन्तायां चन्द्रमासे आढकपरिमाणं, तथा तोल्यत्वचिन्तायामहोरात्रपरिमाणं प्राक्तनमेकोनत्रिंशद्रूपं भारानयनाय त्रिभिर्गुण्यते, जाताः सप्ताशीतिः ८७, येऽपि च द्वात्रिंशद् द्वाषष्टिभागास्तेऽपि त्रिभिर्गुण्यन्ते, जाता षष्णवतिः, तस्या द्वाषष्ट्या भागो हियते, लब्ध एको भारः, शेषास्तिष्ठन्ति चतुस्त्रिंशत्, ततः सर्वसंख्यया चन्द्रमासे तोल्यत्वचिन्तायामष्टाशीतिर्भाराश्चतुस्त्रिंशच्च द्वाषष्टिभागा भारस्य ८८ - ३४ ६२, नक्षत्रमासे सप्तविंशतिरहोरात्रा एकविंशतिः सप्तषष्टिभागा अहोरात्रस्य ततः सा सप्तविंशतिस्त्रिंशता गुण्यते, जातान्यष्टौ शतानि दशोत्तराणि ८१०, येऽपि चैकविंशतिः सप्तषष्टिभागा उपरितनास्तेऽपि त्रिंशता गुण्यन्ते, जातानि षट् शतानि त्रिंशदधिकानि तेषां सप्तषष्ट्या भागो ह्रियते, लब्धा नव मुहूर्त्ताः, शेषास्तिष्ठन्ति सप्तविंशतिः, मुहूर्त्ताश्च मुहूर्त्तराशौ प्रक्षिप्यन्ते, जातानि सर्वसंख्यया मुहूर्त्तानामष्टौ शतान्येकोनविंशत्यधिकानि ८१९, सप्तविंशतिश्च एकस्य तस्य सप्तषष्टिभागाः, एतावन्नक्षत्रमासे मुहूर्त्तपरिमाणं, ततो घटिकापरिमाणानयनार्थमेतदेव द्वाभ्यां गुण्यते, जातानि षोडश शतानि अष्टात्रिंशदधिकानि चतुष्पंचाशच्च सप्तषष्टिभागा घटिकायाः १६३८-५४ । ६७ एतावद् घटिकापरिमाणं नक्षत्रमासे, तोल्यत्वचिन्तायामेकैस्मिन्नहोरात्रे त्रयो भारा इति सप्तविंशतिरहोरात्रास्त्रिभिर्गुण्यन्ते, जातान्येकाशीतिः, एकविंशतिरपि त्रिभिर्गुण्यन्ते जाता ५२
SR No.022166
Book TitleJyotish Karandakam
Original Sutra AuthorN/A
AuthorParshvaratnasagar
PublisherOmkarsuri Aradhana Bhavan
Publication Year2013
Total Pages466
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Book_Gujarati, & agam_anykaalin
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy