SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ अधिकार बीजो - घटिकादिनुं प्रमाण मेकेनाहोरात्रेण परिसमापयति, तस्य चाहोरात्रस्य षष्टि गाः क्रियन्ते, तत्राहोरात्रगता एकोनषष्टिभागा एकस्यास्तिथेः परिमाणं, तत एवं च सति प्रत्यहोरात्रमेकैकः षष्टिभागो वर्द्धते, युगे चाहोरात्राणामष्टादश शतानि त्रिंशदधिकानि, तत एकषष्टिभागा अपि प्रवर्द्धमाना एतावन्तो लभ्यन्ते, तत एतेषां तिथिकरणार्थमेकषष्ट्या भागे हृते लब्धास्त्रिंशत्तिथयः, ता अहोरात्रराशेरुपर्यधिकत्वेन प्रक्षिप्यन्ते, तत आगतं यथोक्तं तिथिपरिमाणमिति, तथा तत्रैवैकस्मिन् युगेऽहोरात्रा अष्टादशशतानि त्रिंशानि-त्रिंशदधिकानि भवन्ति, तथाहिएकैकस्मिन् युगेऽन्यूनातिरिक्तानि पञ्च सूर्यवर्षाणि भवन्ति, एकैकस्मिश्च सूर्यवर्षे त्रीणि शतानि षट्षष्ट्यधिकान्यहोरात्राणां, तानि पञ्चभिर्गुण्यन्ते, ततो यथोक्तमहोरात्रपरिमाणं भवति ॥ ५६ ॥ 'तत्थे' त्यादि, 'तत्र' अनन्तरोक्तस्वरूपे युगे पञ्चभिः 'मानैः' मानसंवत्सरैः प्रमाणसंवत्सरैरादित्यसंवत्सरादिभिरित्यर्थः 'पूर्वगणितैः' प्राक् प्रतिसंख्यातस्वरूपैः 'प्रतिमीयमाने' परिगण्यमाने 'मासैः' सूर्यादिमासैविभज्यमाना मासा यावन्तो भवन्ति तान् वक्ष्ये ॥ ५७ ॥ प्रतिज्ञातमेव निर्वाहयति- 'आइच्चेण' मित्यादि, आदित्येन-आदित्यमासेन विभज्यमाना मासा भवन्ति युगे 'षष्टिः' षष्टिसंख्याः, तथाहि-सूर्यमासे सार्धास्त्रिंशदहोरात्राः, युगे चाहोरात्राणामष्टादश शतानि त्रिंशदधिकानि, तत एतेषां साढैत्रिंशदहोरात्रैर्भागे हियमाणे षष्टिर्मासा लभ्यन्ते । तथा 'ऋतोः' ऋतुसंवत्सरस्य सत्कर्मासैविभज्यमाने युगे एकषष्टिर्मासा भवन्ति, ऋतुमासो हि त्रिंशदहोरात्रप्रमाणः, ततोऽष्टादशशतानां त्रिंशदधिकानां त्रिंशता भागे हृते एकषष्टिरेव लभ्यत इति । तथा 'चान्द्रेण' चान्द्रसंवत्सरसत्केन मासेन च विभज्यमाना मासा युगे सर्वसंख्यया द्वाषष्टिर्भवन्ति, तथाहि-चान्द्रमासपरिमाणमेकोनत्रिंशद्दिनानि द्वात्रिंशच्च द्वाषष्टिभागा दिनस्य, तत एकोनत्रिंशद्दिनानि द्वाषष्टिभागकरणार्थं द्वाषष्ट्या गुण्यन्ते, जातानि सप्तदश शतान्यष्टानवत्यधिकानि १७९८, ततो द्वात्रिंशदुपरितना द्वाषष्टिभागास्तत्र प्रक्षिप्यन्ते, जातान्यष्टादश शतानि त्रिंशदधिकानि १८३०, येऽपि च युगाहोरात्रा अष्टादश शतानि त्रिंशदधिकानि तेऽपि द्वाषष्ट्या गुण्यन्ते, जात एको लक्षस्त्रयोदश सहस्राणि चत्वारि शतानि षष्ट्यधिकानि ११३४६०, एतेषामष्टादशशतैस्त्रिंशदधिकैश्चन्द्रमाससत्कद्वाषष्टिभागरूपैर्भागो हियते, लब्धाश्चन्द्रमासा द्वाषष्टिः ६२ तथा 'नक्षत्रे' नक्षत्रमासे परिगण्यमाने सर्वसंख्यया युगे नक्षत्रमासाः सप्तषष्टिर्भवन्ति, तथाहि-नक्षत्रमासः सप्तविंशतिरहोरात्रा एकविंशतिः सप्तषष्टिभागाः, अहोरात्राः सप्तषष्टिभागकरणार्थं सप्तषष्ट्या गुण्यन्ते, जातान्यष्टादश शतानि नवोत्तराणि १८०९, तत उपरितना एकविंशतिः सप्तषष्टिभागास्तत्र प्रक्षिप्यन्ते, जातान्यष्टादश
SR No.022166
Book TitleJyotish Karandakam
Original Sutra AuthorN/A
AuthorParshvaratnasagar
PublisherOmkarsuri Aradhana Bhavan
Publication Year2013
Total Pages466
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Book_Gujarati, & agam_anykaalin
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy