SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ अधिकार बीजो - घटिकादिनुं प्रमाण સૂર્ય-નક્ષત્રના યોગની વિચારણામાં જે મુહૂર્તે છે તે સૂર્ય મુહૂર્તા જાણવા નહિ કે व्यवsuRs मुहूर्ता. ॥ ४० ॥ સંપ્રતિ યુગમાં પણ તોલ્યરૂપે અને મેયરૂપે પ્રમાણ સંક્ષેપથી જણાવે છે. चंदमभिवड्डियाणं वासाणं पुव्ववन्नियाणं च । तिविहंपि तं पमाणं जुगंमि सव्वं निरवसेसं ॥५१॥ चन्द्राभिवधितानां त्रयाणां चंद्रसंवत्सराणां द्वयोश्चाभिवर्द्धितसंवत्सरयोरित्यर्थः कथम्भूतानाम् ? इत्याह- 'पूर्ववर्णितानां' पूर्वप्रागहोरात्रादिप्रमाणेन तोल्यरूपतया मेयरूपतया चाभिहितानां समुदायरूपे युगे त्रिविधमप्यहोरात्रदिरूपतया तत्प्रमाणं सर्वं निरवशेषं ज्ञातव्यं । तत्राहोरात्रप्रमाणं युगेऽष्टादश शतानि त्रिंशदधिकानि १८३०, तथाहि-युगे चान्द्रसंवत्सरास्त्रयः द्वौ चाभिवार्द्धितसंवत्सरौ, चान्द्रसंवत्सरे चैकस्मिन्नहोरात्राणां त्रीणि शतानि चतुष्पंचाशदधिकानि द्वादश च द्वाषष्टिभागा अहोरात्रस्य ३५४-१२।६२ तत एतत्रिभिर्गुण्यते, जातान्यहोरात्राणां दश शतानि द्वाषष्ट्यधिकानि १०६२, षट्त्रिंशच्च द्वाषष्टिभागा अहोरात्रस्य ३६६२, अभिवद्धितसंवत्सरे चैकस्मिन्नहोरात्राणां त्रीणि शतानि त्र्यशीत्यधिकानि चतुश्चत्वारिंशच्च द्वाषष्टिभागा अहोरात्रस्य ३८३-४४।६२ एतद् द्वाभ्यां गुण्यते, जातानि सप्त शतानि षट्षष्ट्यधिकानि अहोरात्राणां अष्टाशीतिश्च द्वाषष्टिभागा अहोरात्रस्य, प्राक्तनाश्च षट्त्रिंशद् द्वाषष्टिभागा अष्टाशीतौ प्रक्षिप्यन्ते, जातं चतुर्विशत्यधिकं शतं १२४, तस्य द्वाषष्ट्या भागे हृते लब्धौ द्वावहोरात्रौ, तौ पूर्वेष्वहोरात्रेषु मध्ये प्रक्षिप्येते, ततः सर्वसंकलनया जाता अहोरात्रा अष्टादश शतानि त्रिंशदधिकानि १८३०, एतावन्तो युगेऽहोरात्राः, यदा तु मुहूर्तपरिमाणं चिन्त्यते तदैकैकस्मिन्नहोरात्रे त्रिंशन्मुहूर्ता इत्यष्टादश शतानि त्रिंशदधिकान्यहोरात्राणां त्रिंशता गुण्यन्ते, जातानि चतुष्पंचाशत्सहस्राणि नव शतानि ५४९००, एतावन्तो युगे मुहूर्ताः तथा चोक्तं जम्बूद्वीपप्रज्ञप्तौ- [सूत्र १५४] 'पंचसंवच्छरिए णं भंते ! जुगे केवइया अयणा? केवइया उऊ? केवइया मासा? केवइया पक्खा ? १. पंचसांवत्सरिके युगे कियन्त्ययनानि ? कियन्तो ऋतवः ? कियन्तो मासाः ? कियन्तः पक्षाः ? ' कियन्तोऽहोरात्राः ? कियन्तो मुहूर्ताः प्रज्ञप्ताः ? गौतम ! पञ्च सांवत्सरिके युगे दश अयनानि त्रिंशदूतवः षष्टि मांसा एकानि विंशोत्तराणि पक्षशतानि, अष्टादशानि त्रिंशदहोरात्र शतानि चतुष्पंचाशमुहूर्त सहस्राणि नव शतानि प्रज्ञप्तानि ।
SR No.022166
Book TitleJyotish Karandakam
Original Sutra AuthorN/A
AuthorParshvaratnasagar
PublisherOmkarsuri Aradhana Bhavan
Publication Year2013
Total Pages466
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Book_Gujarati, & agam_anykaalin
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy