________________
ज्योतिष्करण्डकम् प्रविभक्तस्य सप्तचत्वारिंशद्भागाः, उक्तं च- "जे णं पंचमस्स अभिवड्डियसंवच्छरस्स आई से णं चउत्थस्स चंदसंवच्छरस्स पज्जवसाणे अणंतरपच्छाकडे समए, तं समयं च णं चंदे केणं नक्खत्तेणं जोएइ, ता उत्तराहि आसाढार्हि, उत्तराणं आसाढाणं बायालीसं( चत्तालीसं) मुहुत्ता चत्तालीसं च बासट्ठिभागा मुहुत्तस्स, बासट्ठिभागं च सत्तट्टिहा छेत्ता सीयालीसं चुण्णिया भागा सेसा" इति । तदानीं च योगः सूर्यस्य पुनर्वसुनक्षत्रेण, तस्य च पुनर्वसुनक्षत्रस्य तदा शेषीभूता एकोनत्रिंशन्मुहूर्ता एकविंशतिषष्टिभागा मुहूर्तस्य एकस्य च द्वाषष्टिभागस्य सप्तषष्टिधा छिनस्य सत्काः सप्तचत्वारिंशद्भागाः, उक्तचं- "तं समयं च णं सूरे केणं नक्खेत्तेणं जोएइ ?, ता पुणव्वसुणा, पुणव्वसुस्स अउणातीसं मुहुत्ता एगवीसं बावट्ठिभागा बावट्ठिभागं च सत्तट्टिहा छित्ता सीयालीसं चुनिया भागा सेसा" इति। यश्च द्वितीस्य युगस्यादिभूतस्य चंद्रसंवत्सरस्य प्रथमसमयस्तदनन्तरं पश्चाद्भावी समयः पंचमस्याभिवर्द्धितसंवत्सरस्य पर्यवसानं तदानीं च चंद्रमसो योग उत्तराषाढानक्षत्रेण, सोऽपि, चरमसमयवर्ती, सूर्यस्यापि च पुष्यनक्षत्रेण, पुष्यस्यापि च तदानी(वर्षी?)शेषीभूता एकविंशतिर्मुहूर्तास्त्रिचत्वारिंशद् द्वाषष्टिभागाः मुहूर्तस्य एकस्य च द्वाषष्टिभागस्य सप्तषष्टिधाछिनस्य त्रयस्त्रिंशद् भागाः, उक्तंच- "ता जे णं पढमस्स चंदसंवच्छरस्स आई से णं पंचमस्स अभिवड्डियसंवच्छरस्स पज्जवसाणे अणंतरपच्छाकडे समए, तं समयं च णं चंदे केणं नक्खेत्तणं जोएइ ? ता उत्तराहिं आसाढाहिं, उत्तराणं आसाढाण चरमसमए । तं समयं च णं सूरे केण नक्खत्तेणं जोएइ ? ता पुस्सेणं, पुस्सस्स एक्कवीसं मुहुत्ता तेयालीसं च बावट्ठिभागा मुहत्तस्स बावट्ठिभागं च सत्तट्ठिहाछित्ता तित्तीसं चुण्णिया भागा सेसा" इति, सर्वत्र च सूर्यनक्षत्रयोगचिन्तायां मुहूर्ताः सूर्यमुहूर्ता वेदितव्या नतु व्यावहारिकाः ॥ ५० ॥ सम्प्रति युगेऽपि तोल्यरूपतया मेयरूपतया च परिमाणमतिदेशेन प्रतिपादयन्नाह
१. यत्पञ्चमस्याभिवधितसंवत्सरस्यादि तच्चतुर्थस्य चंद्रसंवत्सरस्य पर्यवसानोऽनन्तरपश्चात्कृतः समयः, तं समयं च चन्द्रः केन नक्षत्रेण युनक्ति ? उत्तराभिरषाढाभिः, उत्तराणामषाढानां द्विचत्वारिंशन्मुहूर्ताश्चत्वारिंशच्च द्वाषष्टि भागा मुहूर्तस्य द्वाषष्टिभागं च सप्तषष्टिया छित्वा सप्तचत्वारिंशच्चूर्णिता भागाः शेषाः । २. तं समयं च सूर्यः केन नक्षत्रेण युनक्ति ? पुनर्वसुना, पुनर्वसोरेकोनत्रिंशन्मुहूर्ता एकविंशं द्वाषष्टिभागा द्वाषष्टि भागं च सप्तषष्टिधा छित्वा सप्तचत्वारिंशच्चूर्णिता भागाः शेषाः । ३. यत्प्रथमस्य चन्द्र संवत्सरस्यादि तत्पञ्चमस्याभिवर्धितसंवत्सरस्य पर्यवशानोऽनन्तरं पश्चात्कृतःसमयः, तं समयं च चन्द्रः केन नक्षत्रेण युनक्ति ? उत्तराभिरषाढाभिः, उत्तराणामषाढानां चरमसमये । तं समयं च सूर्यः केन नक्षत्रेण युनक्ति ? पुष्येण, पुष्यस्यैकविंशति मुर्हतास्त्रिचत्वारिंशच्च द्वाषष्टिभागा मुहूर्तस्य द्वाषष्टि भागं च सप्तषष्टिया छित्वा त्रयस्त्रिंशच्चूर्णिता भागाः शेषाः ।