SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ ३४ ज्योतिष्करण्डकम् ९८१, एकपंचाशच्च सप्तषष्टिभागाः त्रिर्भिगुण्यन्ते, जातं त्रिपंचाशदधिकमेकं शतं १५३, तस्य सप्तषष्ट्या भागे हृते लब्धौ द्वौ भारी, शेषाश्चैकोनविंशतिः सप्तषष्टिभागास्तिष्ठन्ति, लब्धौ च भारौ भारराशिमध्ये प्रक्षिप्येते, ततो यथोक्तं भारपरिमाणं भवति, मेयरूपतया तु स एव नक्षत्रसंवत्सर एकोनचत्वाशित्सहस्राणि त्रीणि शतान्येकत्रिंशदधिकान्याढकानां भवन्ति त्रयोविंशतिश्च सप्तषष्टिभागा आढकस्य ३९३३१-२३।६७ तथाहि-एकैकस्मिन्नहोरात्रे विंशत्युत्तरमाढकशतं, ततस्त्रीणि शतानि सप्तविंशत्यधिकान्यहोरात्राणां विंशत्युत्तराढक शतेन गुण्यन्ते, जातानि एकोनचत्वारिंशत् सहस्राणि द्वे शते चत्वारिंशदधिके आढकानां ३९२४०, येऽपि चैकपंचाशत्सप्तषष्टिभागास्तेऽपि विंशत्युत्तरेण शतेन गुण्यन्ते, जातान्येकषष्टिशतानि विंशत्युत्तराणि ६१२०, तेषां सप्तषष्ट्या भागे हृते लब्धा एकनवतिराढकाः ९१, शेषास्तिष्ठन्ति त्रयोविंशतिः सप्तषष्टिभागाः, आढकाश्चाढकराशौ प्रक्षिप्यन्ते, ततः प्रागुक्तमाढकपरिमाणं भवति । तथाऽभिवर्द्धितसंवत्सरस्तोल्यरूपतया चिन्त्यमान एकादश भारशतान्येक पंचाशदधिकानि अष्टौ च द्वाषष्टिभागा भारस्य भवन्ति ११५१८, तथाहिअभिवर्द्धितसंवत्सरे त्रीण्यहोरात्रशतानि व्यशीत्यधिकानि भवन्ति चतुश्चत्वारिंशच्च द्वाषष्टिभागा अहोरात्रस्य, एकैकस्मिंश्चाहोरात्रे भारत्रितयं, ततस्त्रीणि शतानि त्र्यशीत्यधिकानि त्रिभिर्गुण्यन्ते, जातान्येकादश शतान्येकोनपंचाशदधिकानि ११४९, येऽपि च चतुश्चत्वारिंशद् द्वाषष्टिभागास्तेऽपि त्रिभिर्गुण्यन्ते जातं द्वात्रिंशं शतं १३२, तस्य द्वाषष्ट्या भागे हृते लब्धौ द्वौ भारौ, शेषाश्चाष्टौ द्वाषष्टिभागास्तिष्ठन्ति, लब्धौ च द्वौ भारौ प्रागुक्तभारराशिमध्ये प्रक्षिप्येते, ततो यथोक्तं तोल्यपरिमाणं भवति । स एव चाभिवर्द्धितः संवत्सरो मेयरूपतया चिन्त्यमानः षट्चत्वारिंशदाढकसहस्राणि पंचचत्वारिंशदधिकानि दश च द्वाषष्टिभागा आढकस्य भवन्ति ४६०४५-१०।६२ तथाहि-एकैकस्मिन्नहोरात्रे विंशत्युत्तरमाढकशतं, ततस्त्रीणि शतानि त्र्यशीत्यधिकान्यहोरात्राणां विंशत्युत्तरेण शतेन गुण्यन्ते, जातान्याढकानां पंचचत्वारिंशत्सहस्राणि नव शतानि षष्ट्यधिकानि ४५९६०, येऽपि च चतुश्चत्वारिंशद् द्वाषष्टिभागास्तेऽपि विंशत्युत्तरेण शतेन गुण्यन्ते, जातानि द्विपंचाशच्छतान्यशीत्यधिकानि, (५२८०) तेषां द्वाषष्ट्या भागे हृते लब्धाः पंचाशीतिराढकाः, (८५) शेषास्तिष्ठान्ति दश द्वाषष्टिभागाः, आढकाश्च आढकराशौ प्रक्षिप्यन्ते, ततो भवति यथोक्तमाढकपरिमाणमिति ॥४७ ॥ सम्प्रति प्रस्तुतवक्तव्यतोपसंहारं वक्ष्यमाणवक्तव्यतोपक्षेपं च कुर्खन्नाह थार्थ :- ॥॥ नं. ४० थी ४२ सुधी भाग 3415 गयेटी छ.
SR No.022166
Book TitleJyotish Karandakam
Original Sutra AuthorN/A
AuthorParshvaratnasagar
PublisherOmkarsuri Aradhana Bhavan
Publication Year2013
Total Pages466
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Book_Gujarati, & agam_anykaalin
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy