SearchBrowseAboutContactDonate
Page Preview
Page 439
Loading...
Download File
Download File
Page Text
________________ ४०६ ज्योतिष्करण्डकम् प्रक्षिप्यन्ते, जातानि द्वादश शतानि पंचषष्ट्यधिकानि १२६५, तेषां षडशीत्यधिकेन शतेन भागो हियते, लब्धाः षड् आगतं षडयनान्यतिक्रान्तानि सप्तममयनं वर्त्तते, तद्गतं च शेषमेकोनपंचाशदधिकं शतं तिष्ठति, तच्चतुर्भिर्गुण्यते, जातानि पंच शतानि षण्णवत्यधिकानि ५९६, तेषामेकत्रिंशता भागहरणे लब्धा एकोनविंशतिः १९, शेषाः तिष्ठति सप्त, तत्र द्वादशांगुलानि पादः, एकोनविंशतेदशभिः पदं लब्धं, शेषाणि तिष्ठन्ति सप्तांगुलानि, षष्ठं चायनमुत्तरायणं तच्च गतं, सप्तमं च दक्षिणायनं वर्तते, ततः पदमेकं सप्तांगुलानि पदद्वयप्रमाणे ध्रुवराशौ प्रक्षिप्यंते, जातानि त्रीणि पदानि सप्तांगुलानि, ये च सप्तैकत्रिंशद्भागाः शेषीभूता वर्तन्ते तान् यवान् कुर्मः तत्राष्टौ यवा अंगुले इति ते सप्त अष्टभिर्गुण्यते, जाताः षट्पंचाशत् ५६, तस्यैकत्रिंशता भागे हृते लब्ध एको यवः, शेषास्तिष्ठन्ति यवस्य पंचविंशतिरेकत्रिंशद्भागाः, आगतं पंचाशीतितमे पर्वणि पंचम्यां त्रीणि पदानि सप्तांगुलान्येको यव एकस्य च यवस्य पंचविंशतिरेकविंशद्भागा इत्येतावती पौरुषीति । तथाऽपरः कोऽपि पृच्छति-सप्तनवतितमे पर्वणि पंचम्यां कतिपदा पौरुषी ? इति, तत्र षण्णवतिध्रियते, तस्याधस्तात्पंचमी षण्णवतिश्च पंचदशभिर्गुण्यते, जातानि चतुर्दश शतानि चत्वारिंशदधिकानि १४४०, तेषां मध्येऽधस्तनाः पंच प्रक्षिप्यन्ते, जातानि चतुर्दश शतानि पंचचत्वारिंशदधिकानि १४४५, तेषां च षडशीत्यधिकेन शतेन भागो हियते, लब्धानि सप्तायनानि, शेषं तिष्ठति त्रिचत्वारिंशदधिकं शतं १४३, तच्चतुर्भिर्गुण्यते, जातानि पंच शतानि द्विसप्तत्यधिकानि ५७२, तेषामेकत्रिंशता भागो हियते, लब्धान्यष्टादशांगुलानि १८, तेषां मध्ये द्वादशभिरंगुलै पदमिति लब्धमेकं पदं षडंगुलानि उपरि चांशा उद्धरंति चतुर्दश, ते यवानयनार्थमष्टभिर्गुण्यंते, जातं द्वादशोत्तर शतं ११२, तस्यैकत्रिंशता भागे हृते लब्धास्त्रयो यवाः, शेषास्तिष्ठति यवस्यैकोनविंशतिरेकत्रिंशद्भागाः, सप्त चायनान्यतिक्रान्तानि अष्टमं वर्त्तते, अष्टमं चायनमुत्तरायणम्, उत्तरायणे च पदचतुष्करूपाध्रुवराशेर्हानिर्वक्तव्या, तत एकं पदं सप्तांगुलानि त्रयो यवाः एकस्य च यवस्यैकोनविंशतिरेकत्रिंशद्भागा इति पदचतुष्टयात्पात्यते, शेषं तिष्ठति द्वे पदे चत्वार्यगुलानि त्रयो यवा एकस्य च यवस्य द्वादश एकत्रिंशद्भागाः एतावती युगादितः सप्तनवतितमे पर्वणि पंचम्यां पौरुषीति, एवं सर्वत्र भावनीयम् ॥ ३७४ ॥ सम्प्रति पौरुषीपरिमाणदर्शनतोऽयनगतपरिमाणज्ञापनार्थं करणमाह ouथार्थ : ॥ शत पौरुषामा वृद्धि-क्षयो थाय छ मेम Aql. ॥ 3७४ ॥
SR No.022166
Book TitleJyotish Karandakam
Original Sutra AuthorN/A
AuthorParshvaratnasagar
PublisherOmkarsuri Aradhana Bhavan
Publication Year2013
Total Pages466
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Book_Gujarati, & agam_anykaalin
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy