SearchBrowseAboutContactDonate
Page Preview
Page 435
Loading...
Download File
Download File
Page Text
________________ ४०२ ज्योतिष्करण्डकम् ___ यः पूर्वभागे हृते भागसम्भवेन शेषीभूतोऽयनगतस्तिथिराशिर्वर्त्तते स चतुर्भिर्गुण्यते, गुणयित्वा च पर्वपादेन-युगमध्ये यानि सर्वसङ्ख्यया पर्वाणि चतुर्विंशत्यधिकशतसङ्ख्यानि तेषां पादेन -चतुर्थांशेन एकत्रिंशतेत्यर्थः तया भागे हृते यल्लब्धं तान्यङ्गुलानि अङ्गुलांशाश्च पौरुषीक्षयवृद्ध्योतिव्यानि, दक्षिणायने पदध्रुवराशेरुपरि वृद्धौ ज्ञातव्यानि, उत्तरायणे पदध्रुवराशेः क्षय इत्यर्थः, अथैवंभूतस्य गुणकारस्य भागहारस्य वा कथमुत्पत्तिः ? उच्यते, यदि षडशीत्यधिकेन तिथिशतेन चतुर्विंशतिरङ्गुलानि क्षये वृद्धौ वा प्राप्यन्ते तत् एकस्यां तिथौ का वृद्धिः क्षयो वा ? राशित्रयस्थापना १८६-२४-१ अत्रान्त्येन राशिना एककलक्षणेन मध्यमो राशिश्चतुर्विंशतिरूपो गुण्यते, जातः स तावानेव, तत आद्येन राशिना षडशीत्यधिकशतरूपेण भागो हियते, तत्रोपरितनराशेः स्तोकत्वाद्भागो न लभ्यते, ततश्छेद्यच्छेदकराश्योः षट्केनापवर्तना, जात उपरितनो राशिश्चतुष्करूपोऽधस्तन एकत्रिंशत्, लब्धमेकस्यां तिथौ चत्वार एकत्रिंशद्भागाः क्षये वृद्धौ चेति चतुष्को गुणकार उक्त एकत्रिंशद्भागहार इति ॥ ३७० ॥ इह यल्लब्धं तान्यङ्गुलानि क्षये वृद्धौ चेत्युक्तं तत्र कस्मिन्नयने कियत्प्रमाणाया राशेरुपरि वृद्धिः कस्मिन् वाऽयने किंप्रमाणाया राशेः क्षय ? इत्येतन्निरूपणार्थमाह दक्खिणवुड्डी दुपयाउ अंगुलाणं तु होइ नायव्वा । उत्तरअयणा हाणी कायव्वा चर्हि पायाहिं ॥ ३७१ ॥ दक्षिणायने द्विपादात् पादद्वयस्योपर्यफुलानां वृद्धिर्ज्ञातव्या, उत्तरायणे चतुर्थ्य: पादेभ्यः सकाशादङ्गलानां हानिः ॥ तत्र युगमध्ये प्रथम संवत्सरे दक्षिणायने यतो दिवसादारभ्य वृद्धिस्तं निरूपयति વીસમું પ્રાભૃત જણાવ્યું, હવે પૌરુષી પરિમાણ પ્રતિપાદક એકવીશું પ્રાભૃત જણાવે છે. ગાથાર્થ : પૌરુષી પરિમાણ લાવવા માટે પર્વને પંદરગણું કરવું, તિથિઓ ઉમેરવી પછી ૧૮થી ભાગ કરતાં જે આવ્યું તે જાણવું, જો વિષમલબ્ધ હોય તો દક્ષિણ અયન હોય એમ જાણવું અને જો સમલબ્ધ હોય તો ઉત્તરાયણ જાણવું. અયનગત તિથિરાશિ ચાર ગુણો કરવો અને પર્વવાદથી ભાગ કરતાં જે પ્રાપ્ત થયું તે અંગુલો પૌરુષીની ક્ષયवृद्धिन। 1. ॥ ३६८-७० ॥
SR No.022166
Book TitleJyotish Karandakam
Original Sutra AuthorN/A
AuthorParshvaratnasagar
PublisherOmkarsuri Aradhana Bhavan
Publication Year2013
Total Pages466
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Book_Gujarati, & agam_anykaalin
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy