SearchBrowseAboutContactDonate
Page Preview
Page 402
Loading...
Download File
Download File
Page Text
________________ ३६९ अधिकार ओगणीसमो - अमावस्या-पूर्णिमा-चन्द्रनक्षत्रयोग तदष्टादशभिः शतैस्त्रिंशदधिकैः संगुण्यते, संगुणिते च तस्मिन् ततस्त्रयोदशभिः शतैर्युत्तरैरभिजित् शोधनीयः, अभिजितो भोग्यानामेकविंशतेः सप्तषष्टिभागानां द्वाषष्ट्या गुणने एतावतः शोधनकस्य लभ्यमानत्वात्, ततस्तस्मिन् शोधिते सप्तषष्टिसंख्या या द्वाषष्टयस्तासां सर्वाग्रेण यद्भवति,किमुक्तं भवति ? सप्तषष्ट्या द्वाषष्टौ गुणितायां यद्भवति, तेन भागे हृते यल्लब्धं तावन्ति नक्षत्राणि शुद्धानि द्रष्टव्यानि, यत्पुनः 'ततोऽपि' भागहरणादपि शेषमवतिष्ठते तत् 'ऋक्षं' नक्षत्रं ज्ञातव्यं यत्र विवक्षितं पर्व समाप्तमिति । एष करणगाथात्रयाक्षरार्थः, भावना त्वियं-यदि चतुर्विंशत्यधिकेन पर्वशतेन सप्तषष्टिपर्याया लभ्यन्ते तत एकेन पर्वणा किं लभामहे ? राशित्रयस्थापना १२४-६७-१, अत्र चतुर्विंशत्यधिकपर्वशतरूपो राशिः प्रमाणभूतः, सप्तषष्टिरूपः फलं, तत्रान्त्येन राशिना मध्यराशिर्गुण्यते, जातस्तावानेव, तस्याद्येन राशिना चतुर्विंशत्यधिकेन शतेन भागहरणं, स च स्तोकत्वाद्भागं न प्रयच्छति, ततो नक्षत्रानयनार्थमष्टादशभिः शतैत्रिंशदधिकैः सप्तषष्टिभागैर्गुणयिष्याम इति गुणकारच्छेदराश्योरर्द्धनापवर्तना, जातो गुणकारराशिनव शतानि पंचदशोत्तराणि ९१५, छेदराशि_षष्टिः, तत्र सप्तषष्टिर्नवभिः शतैः पंचदशोत्तरैर्गुण्यते, जातानि एकषष्टिसहस्राणि त्रीणि शतानि पंचोत्तराणि ६१३०५, एतस्मादभिजितस्त्रयोदश शतानि व्युत्तराणि शुद्धानि, स्थितानि शेषाणि षष्टिसहस्राणि युत्तराणि ६०००३, तत्र छेदराशिभषष्टिरूपः सप्तषष्ट्या गुण्यते, जातान्येकचत्वारिंशच्छतानि चतुष्पंचाशदधिकानि ४१५४, तैर्भागो हियते, लब्धाश्चतुर्दश, तेन श्रवणादीनि पुष्यपर्यन्तानि चतुर्दश नक्षत्राणि शुद्धानि, शेषाणि तिष्ठन्त्यष्टादश शतानि सप्तचत्वारिंशदधिकानि १८४७, एतानि मुहूर्तानयनार्थं त्रिंशता गुण्यंते, जातानि पंचपंचाशत्सहस्राणि चत्वारि शतानि दशोत्तराणि ५५४१०, तेषां भागे हृते लब्धास्त्रयोदश मुहूर्ताः, शेषाणि तिष्ठन्ति चतुर्दश शतानि अष्टोत्तराणि १४०८, एतानि द्वाषष्टिभागानयनार्थं द्वाषष्ट्या गुणयितव्यानि, गुणकारच्छेदराश्योाषष्ट्याऽपवर्त्तना क्रियते, तत्र गुणकारराशिर्जात एककश्छेदराशिः सप्तषष्टिः एकेन च गुणित उपरितनो राशिर्जातस्तावानेव, ततः सप्तषष्ट्या भागे हृते लब्धा एकविंशतिः २१, पश्चादवतिष्ठते एकः सप्तषष्टिभागः एकस्य च द्वाषष्टिभागस्य, आगतं प्रथमं पर्व अश्लेषायास्त्रयोदश मुहूर्त्तान् एकस्य च मुहूर्तस्य एकविंशति द्वाषष्टिभागान् एकस्य च द्वाषष्टिभागस्यैकं सप्तषष्टिभागं भुक्त्वा समाप्तमिति । तथा यदि चतुर्विंशत्यधिकेन पर्वशतेन सप्तषष्टिः पर्याया लभ्यन्ते ततो द्वाभ्यां पर्वभ्यां किं लभ्यते? राशित्रयस्थापना १२४-६७-२, अत्रान्त्येन
SR No.022166
Book TitleJyotish Karandakam
Original Sutra AuthorN/A
AuthorParshvaratnasagar
PublisherOmkarsuri Aradhana Bhavan
Publication Year2013
Total Pages466
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Book_Gujarati, & agam_anykaalin
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy