SearchBrowseAboutContactDonate
Page Preview
Page 381
Loading...
Download File
Download File
Page Text
________________ ३४८ ज्योतिष्करण्डकम् वचनात्, तेषां चतुर्विंशत्यधिकेन शतेन भागो हियते, लब्धाः पञ्च चतुर्विंशत्यधिकशतभागाः, ततो नक्षत्रानयनार्थमेतेऽष्टादशभिः शतैस्त्रिंशदधिकैः सप्तषष्टि-भागरूपैर्गुणयितव्या इति गुणकारराशिच्छेदराश्योर्द्विकेनापवर्तना, जातो गुणकारराशिनव शतानि पञ्चदशोत्तराणि ९१५, छेदराशिभषष्टिः, तत्र पञ्च नवभिः शतैः पञ्चदशोत्तरैर्गुण्यन्ते, जातानि पञ्चत्वारिंशच्छतानि पञ्चसप्तत्यधिकानि ४५७५, छेदराशियषष्टिलक्षणः सप्तषष्ट्या गुण्यते, जातान्येकचत्वारिंशत् शतानि चतुष्पञ्चाशदधिकानि ४१५४, तथा पुष्यस्य ये त्रयोविंशतिभागाः प्राक्तनयुगचरमपर्वणि सूर्येण सह योगमायान्ति ते द्वाषष्ट्या गुण्यन्ते, जातानि चतुर्दश शतानि षड्विंशत्यधिकानि १४२६, तानि प्राक्तनात्पञ्चसप्तत्यधिकपञ्चचत्वारिंशच्छतप्रमाणात् शोध्यन्ते, शेषं तिष्ठतिएकत्रिंशत् शतानि एकोनपंचाशदधिकानि ३१४९, तत एतानि मुहूर्तानयनार्थं त्रिंशता गुण्यन्ते, जातानि चतुर्नवतिसहस्राणि चत्वारि शतानि सप्तत्यधिकानि ९४४७०, तेषां छेदराशिना चतुष्पञ्चाशदधिकैकचत्वारिंशच्छतरूपेण भागो हियते, लब्धा द्वाविंशतिर्मुहूर्ताः, शेषं तिष्ठति त्रीणि सहस्राणि व्यशीत्यधिकानि ३०८२, एतानि द्वाषष्टिभागानयनार्थं द्वाषष्ट्या गुण्यन्ते, जातमेकं लक्षमेकनवतिः सहस्राणि चतुरशीत्यधिकानि १९१०८४, तेषां छेदराशिना ४१५४ भागो हियते, लब्धाः षट्चत्वारिंशन्मुहूर्तस्य द्वाषष्टिभागाः ॥३१७॥ एषा पुनर्वसुनक्षत्रशोधनक निष्पत्तिः, अथ शेषनक्षत्राणां शोधनकान्याह-द्वासप्ततं-द्विसप्तत्यधिकं शतं 'फाल्गुनीनाम्' उत्तराफाल्गुनीनां शोध्यं, किमुक्तं भवति ? द्विसप्तत्यधिकेन शतेन पुनर्वसुप्रभृतीनि उत्तराफाल्गुनीपर्यन्तानि नक्षत्राणि शुध्यन्ति, एवमुत्तरत्रापि भावार्थो भावनीयः, तथा 'विशाखासु' विशाखापर्यन्तेषु नक्षत्रेषु शोधनकं द्वे शते द्विनवत्यधिके २९२, 'अथ' अनन्तरम् 'उत्तराषाढा' उत्तराषाढापर्यन्तानि नक्षत्राण्यधिकृत्य शोध्यानि चत्वारि शतानि द्विचत्वारिंशदधिकानि ४४२ ॥३१८॥ 'एतत्' अनन्तरोक्तं शोधनकं सकलमपि पुनर्वसुसत्कद्वाषष्टिभाग[सहित]मवसेयम्, एतदुक्तं भवति-ये पुनर्वसुसत्का द्वाविंशतिमुहूर्तास्ते सर्वेऽप्युत्तरस्मिन् उत्तरस्मिन् शोधनकेऽन्तः प्रविष्टा वर्तन्ते, नतु शुद्धा द्वाषष्टिभागाः, ततो यद्यच्छोधनकं शोध्यं तत्र तत्र पुनर्वसुसत्काः षट्चत्वारिंशद् द्वाषष्टिभागा उपरितनाः शोधनीया इति, एतच्च पुनर्वसुप्रभृत्युत्तराषाढापर्यन्तं प्रथमं शोधनकम्, अत ऊर्ध्वमभिजितमादिं कृत्वा द्वितीयं शोधनकं वक्ष्यामि ॥३१९॥ तत्र प्रतिज्ञातमेव निर्वाहयति-अभिजितो नक्षत्रस्य शोधनकं नव मुहूर्ताः एकस्य च मुहूर्तस्य सत्काश्चतुर्विंशतिभषष्टिभागाः एकस्य च द्वाषष्टिभागस्य सप्तषष्टिच्छेदकृताः परिपूर्णाः षट्षष्टिभागाः, तथा ‘एकोनषष्टम्' एकोनषष्ट्यधिकं शतं 'प्रौष्ठपदानाम्' उत्तरभद्रपदानां शोधनकं,
SR No.022166
Book TitleJyotish Karandakam
Original Sutra AuthorN/A
AuthorParshvaratnasagar
PublisherOmkarsuri Aradhana Bhavan
Publication Year2013
Total Pages466
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Book_Gujarati, & agam_anykaalin
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy