SearchBrowseAboutContactDonate
Page Preview
Page 377
Loading...
Download File
Download File
Page Text
________________ અધિકાર-૧૯ઃ અમાવસ્યા-પૂર્ણિમા-ચન્દ્રનક્ષત્રયોગ तदेवमुक्तमष्टादशं प्राभृतं, साम्प्रतममावास्यापूर्णमासीचन्द्रनक्षत्रयोगप्रतिपादकमेकोनविंशतितमं प्राभृतं वक्तव्यं, तत्र युगे द्वाषष्टिरमावास्या द्वाषष्टिः पौर्णमास्यः, तत्र कस्मिन्नक्षत्रे काऽमावस्या ? इत्यमावस्याविषयं करणमाह नाउमिह अमावासं जइ इच्छसि कम्मि होइ रिक्खंमि ?। अवहारं ठावेज्जा तत्तियरूवेहिं संगुणए ॥३१४॥ याममावास्यामिह युगे ज्ञातुमिच्छसि यथा कस्मिन्नक्षत्रे वर्तमाना परिसमाप्ता भवति ? इति, तावद्रूपैः, यावत्योऽमावास्या अतिक्रान्तास्तावत्या संख्यया इत्यर्थः, वक्ष्यमाणस्वरूपमवधार्यते-प्रथमतया स्थाप्यते इत्यवधार्यो-ध्रुवराशिस्तमवधार्यराशि तस्यां पट्टिकादौ स्थापयित्वा संगुणयेत् ॥ ३१४ ॥ अथ किंप्रमाणोऽसाववधार्यराशिः ? इति तत्प्रमाणनिरूपणार्थमाह छावट्ठी य मुहुत्ता बिसट्ठिभागा य पंच पडिपुण्णा । बावट्ठिभागसत्तट्ठिमो य एक्को भवइ भागो ॥३१५॥ षट्षष्टिर्मुहूर्ताः, एकस्य च मुहूर्तस्य पञ्च परिपूर्णा द्वाषष्टिभागाः एकस्य द्वाषष्टिभागस्यैकः सप्तषष्टितमो भाग इत्येतावत्प्रमाणोऽवधार्यराशिः, कथमेतावत्प्रमाणस्योत्पत्तिः ? इति चेद्, उच्यते, इह यदि चतुर्विंशत्यधिकेन पर्वशतेन पञ्च सूर्यनक्षत्रपर्याया लभ्यन्ते ततो द्वाभ्यां पर्वभ्यां किं लभामहे ?, राशित्रयस्थापना १२४-५-२, अत्रान्त्येन राशिना द्विकलक्षणेन मध्यो राशिः पञ्चकलक्षणो गुण्यते, जाता दश, तेषां चतुर्विशत्यधिकेन शतेन भागहरणं, तत्र छेद्यच्छेदकराश्योर्द्विकेनापवर्त्तना क्रियते, जात उपरितनश्छेद्यो राशिः पञ्चकरूपोऽधस्तनो द्वाषष्टिरूपो, लब्धाः पञ्च द्वाषष्टिभागाः, एतेन नक्षत्राणि कर्त्तव्यानीति नक्षत्रकरणार्थ
SR No.022166
Book TitleJyotish Karandakam
Original Sutra AuthorN/A
AuthorParshvaratnasagar
PublisherOmkarsuri Aradhana Bhavan
Publication Year2013
Total Pages466
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Book_Gujarati, & agam_anykaalin
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy