SearchBrowseAboutContactDonate
Page Preview
Page 370
Loading...
Download File
Download File
Page Text
________________ अधिकार अढारमो - दिवसनी हानि-वृद्धि ३३७ सर्वजघन्या च द्वादशमुहूर्त्तप्रमाणा रात्रिः, ततस्तदनन्तरेषु द्वितीयादिषु मण्डलेषु प्रतिदिवसं मुहूर्तेकषष्टिभागद्वयवृध्ध्या रात्रिर्वद्धते मुहूर्तेकषष्टिभागद्वयहान्या दिवसो हीयते, तत एवं दक्षिणेऽयने क्रमेण दिवसाद्विनिर्गत्य रात्रिं षण्मुहूर्ता अयन्ते, तथोत्तरस्मिन्नयने षण्मुहूर्ता रात्रेविनिर्गत्य दिवसमायान्ति, यतः सर्वबाह्यान्मण्डलादभ्यन्तरप्रवेश उत्तरायणं, सर्वबाह्ये रात्रिरष्टादशमुहूर्तप्रमाणा, तत्र मण्डले दिवसो द्वादशमुहूर्तप्रमाणः, ततोऽभ्यन्तरप्रवेशे द्वितीयादिषु मण्डलेषु क्रमेण प्रतिदिवसं मुहूर्तेकषष्टिभागद्वयहान्या हानिमुपगच्छति यावत् सर्वाभ्यन्तरे मण्डले दिवसोऽष्टादशमुहूर्तप्रमाणो रात्रिीदशमुहूर्तप्रमाणा, तत एवमुत्तरस्मिन्नयने षण्मुहूर्ताः क्रमेण रात्रेर्विनिर्गत्य दिवसमभिगच्छंतीति । ‘एवं तु' इत्यादि, यतः प्रतिदिवसं मुहूर्तेकषष्टिभागद्वयं दिवसाद्विनिर्गत्य रात्रिमायाति रात्रेर्वा विनिर्गत्य दिवसं ततः 'एवम्' उक्तेन प्रकारेण सर्वोऽप्यहोरात्रो भवति त्रिंशन्मुहूर्तप्रमाणः, तथाहि- सर्वाभ्यन्तरे मण्डले दिवसोऽष्टादशमुहूर्तप्रमाणः रात्रिीदशमुहूर्तप्रमाणा, सर्वाभ्यन्तरानन्तरे द्वितीये मण्डले दिवसो मुहूर्तेकषष्टिभागद्वयहीनः अष्टादशमुहूर्तः मुहूर्तेकषष्टिभागद्वयाधिका द्वादशमुहूर्तप्रमाणा रात्रिः, तृतीये मण्डले दिवसो मुहूर्तेकषष्टिभागचतुष्टयहीनाष्टादशमुहूर्तप्रमाणो मुहूर्तेकषष्टिभागचतुष्ट्याधिकद्वादशमुहूर्तप्रमाणा रात्रिः, एवं तावद् वाच्यं यावत्सर्वबाह्ये मण्डले द्वादशमुहूर्तप्रमाणो दिवसोऽष्टादशमुहूर्तप्रमाणा रात्रिः, ततः सर्वत्रापि मण्डलेऽहोरात्रः परिभाव्यमानस्त्रिंशन्मुहूर्तप्रमाण इति ॥ ३०६ ॥ सम्प्रति प्रतिदिवसमुक्तस्वरूपां वृद्धि हानि वा दिवसरात्र्योः करणवशतः प्रतिपादयन्नाह तेसीएण सएणं छण्डं भागे तु चरमुहुत्ताणं । जं लद्धं सा वुड्डी छेओ व दिवसस्स विनेओ ॥ ३०७ ॥ षण्णां चरमुहूर्तानां त्र्यशीत्यधिकेन शतेन भागे हृते यत् लब्धं सा उत्तरायणे प्रतिदिवसं दिवसस्य वृद्धिर्ज्ञातव्या, यदिवा दक्षिणायने स दिवस्य छेदो ज्ञातव्यः, एतच्चोपलक्षणं तेन यद्भागलब्धं सा दक्षिणेऽयने रात्रेर्वृद्धिर्यदिवा उत्तरायणे स छेद इति करणगाथाऽक्षरार्थः, भावना त्वियं-यदि त्र्यशीत्यधिकेन दिवसशतेन षण्मुहूर्त्ता वृद्धौ प्राप्तास्तत एकस्मिन् दिवसे का वृद्धिः ? राशित्रयस्थापना-१८३-६-१, अत्रान्त्येन राशिना एककलक्षणेन मध्यराशिः षट्करूपो गुण्यते, जाताः षडेव, तेषां त्र्यशीत्यधिकेन शतेन भागो हियते, ते च स्तोकत्वाद् भागं न प्रयच्छन्तीति तत एकषष्टिभागकरणार्थमेकषष्ट्या गुण्यन्ते, जातानि त्रीणि शतानि षट्ष्ट्य धिकानि ३६६, तेषां भागे हृते लब्धौ द्वौ मुहूर्तेकषष्टिभागौ, एतावती उत्तरायणे
SR No.022166
Book TitleJyotish Karandakam
Original Sutra AuthorN/A
AuthorParshvaratnasagar
PublisherOmkarsuri Aradhana Bhavan
Publication Year2013
Total Pages466
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Book_Gujarati, & agam_anykaalin
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy