SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ ३०९ अधिकार सोळमो - व्यतिपात વ્યતીપાત લાવવા માટે કરણઃ इच्छिते उ जुगभेए। इच्छियवइवायपि य इच्छं काऊण आणेहि ॥ २९२ ॥ जं भवइ भागलद्धं तं इच्छं निद्दिसाहि सव्वत्था । सेसेवि तस्स भेए फलरासिस्साऽऽणए सिग्धं ॥ २९३ ॥ 'ईप्सिते' विवक्षिते 'युगभेदे' युगविशेष इच्छाम्-ईप्सितव्यतीपातविषयां कृत्वा ईप्सितं व्यतीपातमप्यानय । कथमित्याह तत्र यद् भवति भागेन-द्वासप्तत्यादिभागहारेण लब्धं तं-तत्संख्यं 'इच्छंति ईप्सितं व्यतीपातं निर्दिशेत् । शेषानपि युगभेदान् मुहूर्तादिरूपान् 'फलरासिस्स'त्ति तृतीयार्थे षष्ठी फलराशिना द्वासप्ततिलक्षणेन शीघ्रमानय । एष करणगाथाक्षरार्थः, सम्प्रति भावना क्रियते-यदि द्वासप्ततिसङ्ख्यैर्व्यतीपातैश्चतुर्विशत्यधिकं पर्वशतं लभ्यते तत एकस्मिन् व्यतीपाते किं लभामहे ? राशित्रयस्थापना ७२-१२४-१ अत्रान्त्येन राशिना एककलक्षणेन मध्यराशिश्चतुर्विशत्यधिकशतप्रमाणो गुण्यते, जातं तदेव चतुर्विंशत्यधिकं शतं १२४, तस्य द्वासप्तत्या भागो हियते, लब्धमेकं पर्व, पश्चादवतिष्ठते द्विपञ्चाशत् सा पञ्चदशभिर्गुण्यते, जातानि सप्त शतान्यशीत्यधिकानि, तेषां द्वासप्तत्या भागहारे लब्धा दश तिथयः, शेषा षष्टिः, सा मुहूर्तकरणार्थं त्रिंशता गुण्यते, जातान्यष्टादश शतानि १८००, तेषां द्वासप्तत्या भागहरणे लब्धाः परिपूर्णाः पंचविंशतिर्मुहूर्ताः, पश्चान्न किमपि तिष्ठति, आगतमेकस्मिन् पर्वणि गते दशसु च तिथिषु गतास्वेकादश्यां पंचविंशतौ मुहूर्तेषु प्रथमो व्यतीपातः समामापप्तदिति, तथा यदि द्वासप्ततिसङख्यैर्व्यतीपातैश्चतुर्विंशत्यधिकं पर्वशतं लभ्यते ततः पंचभिर्व्यतीपातैः किं लभ्यम् ? इति, राशित्रयस्थापना ७२-१२४-५, अत्रान्त्येन राशिना पंचकलक्षणेन मध्यराशेर्गुणनं, जातानि षट् शतानि विंशत्यधिकानि ६२०, तेषां द्वासप्तत्या भागो हियते, लब्धान्यष्टौ पर्वाणि ८, शेषास्तिष्ठन्ति चतुश्चत्वारिंशत् ४४, सा तिथ्यानयनाय पंचदशभिर्गुण्यते, जातानि षट् शतानि षष्ट्यधिकानि ६६०, तेषां द्वासप्तत्या भागहारे लब्धा नव ९, शेषास्तिष्ठन्ति द्वादश, ते मुहूर्तानयनाय त्रिंशता गुण्यन्ते, जातानि त्रीणि शतानि षष्ट्यधिकानि ३६०, तेषां द्वासप्तत्या भागे हृते लब्धाः परिपूर्णाः पंच मुहूर्ताः, १. आनयनं च वक्ष्माणत्रैराशिककर्मावतारतः, ततो यद् भवति भागलब्धं तं ईप्सितं -जे. इति -पु. प्रे. पार्श्वभागे।
SR No.022166
Book TitleJyotish Karandakam
Original Sutra AuthorN/A
AuthorParshvaratnasagar
PublisherOmkarsuri Aradhana Bhavan
Publication Year2013
Total Pages466
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Book_Gujarati, & agam_anykaalin
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy