SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ २९६ ज्योतिष्करण्डकम् त्रिकलक्षणेन मध्यमः सप्तषष्टिरूपो राशि ण्यते, जाते द्वे शते एकोत्तरे २०१, विषुवं चायनस्य द्विभागरूपमित्यादिराशिर्दशकलक्षणो द्वाभ्यां गुण्यते, जाता विंशतिः, तया भागो हियते, लब्धा दश चन्द्रनक्षत्रपर्यायाः, शेषस्तिष्ठत्येकः, स पर्यायभागं न प्रयच्छतीति अष्टादशभिः शतैस्त्रिंशः सप्तसष्टिभागैर्गुणयिष्याम इति विंशतिलक्षणच्छेदराशिगतेन शून्येन सह शून्यस्यापवर्तनायां जातं त्र्यशीत्यधिकं शतं १८३, तेनैकको गुण्यते, जातं त्र्यशीत्यधिकमेव शतम्, एकेन गुणितं तदेव भवतीति वचनात्, ततोऽभिजितो द्वाचत्वरिंशत् शुद्धा, शेषं तिष्ठत्येकचत्वारिंशदधिकं शतं १४१, ततोऽपि चतुस्त्रिंशदधिकेन शतेन श्रवणः शुद्धः, शेषास्तिष्ठन्ति सप्त, आगतं श्रवणनक्षत्रमतिक्रम्य धनिष्ठानक्षत्रस्य वसुदेवताकस्य सप्त चतुस्त्रिंशदधिकशतभागानवगाह्य द्वितीयं विषुवं प्रवर्तत इति । तथा चतुर्थं विषुवं कस्मिन् चन्द्रनक्षत्रे भवतीति जिज्ञासायां त्रैराशिकं, यदि दशभिर्विषुवैः सप्तषष्टिश्चन्द्रनक्षत्रपर्याया लभ्यन्ते ततः सप्तभिर्विषुवद्विभागैः कति पर्याया लभ्यन्ते ? राशित्रयस्थापना १०-६७-७, अत्रान्त्येन राशिना सप्तकलक्षणेन मध्यमस्य राशेर्गुणनं, जातानि चत्वारि शतान्येकोनसप्तत्यधिकानि ४६९, तेषां विंशत्या भागो हियते, लब्धास्त्रयोविंशतिपर्यायाः, शेषा उद्धरिता नव प्रागुक्तयुक्त्या त्र्यशीत्यधिकेन शतेन गुण्यन्ते, जातानि षोडश शतानि सप्तचत्वारिंशदधिकानि १६४७, ततोऽभिजितो द्वाचत्वारिंशत् शुद्धा, स्थितानि शेषाणि षोडश शतानि पंचोत्तराणि १६०५, तेभ्यश्चतुर्दशभिः शनैश्चतुःसप्तत्यधिकैः १४७४ मृगशिरः पर्यन्तान्येकादश नक्षत्राणि शुद्धानि, स्थितं पश्चादेकत्रिंशदधिकं शतं १३१, ततोऽपि सप्तषष्ट्याऽऽर्द्रा शुद्धा, स्थिता शेषा चतुष्षष्टिः, आगतं श्रवणादीन्याापर्यन्तानि द्वादश नक्षत्राण्यतिक्रम्य पुनर्वसुनक्षत्रस्य चतुस्त्रिंशदधिकशतभागानां चतुष्षष्टिसंख्यानामवगाह्य चतुर्थं विषुवत् प्रवर्त्तते इति । एवं सर्वाण्यपि विषुवनक्षत्राणि भावनीयानि, तत्संग्राहिका चेयं गाथा रोहिणि वासव साई अदिइ अभिवड्डि मित्त पिउदेवा । आसिणिवीसूदेवा अज्जमणा इइ विसुवरिक्खा ॥ २८७ ॥ 'इइ' इति अमूनि यथाक्रमं विषुवाणां नक्षत्राणि, तद्यथा-प्रथमस्य विषुवस्य प्रवृत्तावादौ नक्षत्रं रोहिणी द्वितीयस्य वासवं च-वसुदेवतोपलक्षितं धनिष्ठानक्षत्रं तृतीयस्य स्वातिश्चतुर्थस्यादितिदेवतोपलक्षितं पुनर्वसुनक्षत्रं पंचमस्याभिवृद्धिदेवतोपलक्षितमुत्तराभद्रपदनक्षत्रं षष्ठस्य मित्रो-मित्रदेवतोपलक्षितमनुराधानक्षत्रं सप्तमस्य 'पितृदेवता' मघा अष्टमस्याश्विनी नवमस्य 'विष्वग्देवाः' उत्तराषाढाः दशमस्यार्यमा-अर्यमदेवोपलक्षितमुत्तरफाल्गुनीनक्षत्रमिति ॥ २८७ ॥ सम्प्रत्येतेष्वेव विषुवेषु सूर्यनक्षत्रं प्रतिपिपादयिषुराह
SR No.022166
Book TitleJyotish Karandakam
Original Sutra AuthorN/A
AuthorParshvaratnasagar
PublisherOmkarsuri Aradhana Bhavan
Publication Year2013
Total Pages466
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Book_Gujarati, & agam_anykaalin
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy