SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ २८५ अधिकार चौदमो - ऋतु परिमाण स्थितानि पश्चात् पंच शतान्यष्टात्रिंशदधिकानि ५३८, एतेभ्योऽपि चतुस्त्रिंशेन शतेन पूर्वभद्रपदा शुद्धा, स्थितानि चत्वारि शतानि चतुरधिकानि ४०४, तेभ्योऽपि द्वाभ्यां शताभ्यामेकोत्तराभ्यामुत्तरभद्रपदा शुद्धा, स्थिते शेषे द्वे शते व्युत्तरे २०३, ताभ्यामपि चतुस्त्रिंशेन शतेन रेवती शुद्धा, स्थिता पश्चादेकोनसप्ततिः ६९, आगतमश्विनीनक्षत्रस्यैकोनसप्तति चतुस्त्रिंशदधिकशतभागानवगाह्य द्वितीयं स्वमृतुं चन्द्रः परिनिष्ठापयति, तथा व्युत्तरचतुःशततमचन्द्रर्तुजिज्ञासायां स एव ध्रुवराशिः पंचोत्तरशतत्रयप्रमाणो ध्रियते, धृत्वा चाष्टभिः शतैस्त्र्युत्तरैर्गुण्यते, जाते द्वे लक्षे चतुश्चत्वारिंशत्सहस्राणि नव शतानि पंचदशोत्तराणि २४४९१५, तत्रार्द्धक्षेत्रेषु षट्सु नक्षत्रेषु प्रत्येकं सप्तषष्टिरंशा व्यर्द्धक्षेत्रेषु षट्सु नक्षत्रेषु प्रत्येकं द्वे द्वे शते एकोत्तरे अंशानां, पंचदशसु समक्षेत्रेषु प्रत्येकं चतुस्त्रिंशं शतमिति, षट् सप्तषष्ट्या गुण्यन्ते, जातानि चत्वारि शतानि व्युत्तराणि ४०२, तथा षड् एकोत्तरेण शतद्वयेन गुण्यन्ते, जातानि द्वादश शतानि षडुत्तराणि १२०६, तथा चतुस्त्रिंशं शतं पंचदशभिर्गुण्यते, जातानि विंशतिशतानि दशोत्तराणि २०१०, एते च त्रयोऽपि राशय एकत्र मील्यन्ते, मीलयित्वा तेष्वभिजितो द्वाचत्वारिंशत् प्रक्षिप्यन्ते, जातानि षट्त्रिंशच्छतानि षष्ट्यधिकानि ३६६०, एतावानेको नक्षत्रपर्यायः, तत एतेन पूर्वस्य राशेर्भागो हियते, लब्धाः षट्षष्टिर्नक्षत्रपर्यायाः पश्चादवतिष्ठन्ते पंचपंचाशदधिकानि त्रयस्त्रिंशच्छतानि ३३५५, तत्राभिजितो द्वाचत्वारिंशत् शुद्धा, स्थितानि शेषाणि त्रयस्त्रिंशच्छतानि त्रयोदशाधिकानि ३३१३, तेषां त्रिभिः सहजैद्यशीत्यधिकैरनुराधान्तानि नक्षत्राणि शुद्धानि, शेषं तिष्ठतो वे शते एकत्रिंशदधिके २३१, ततः सप्तषष्ट्या ज्येष्ठा शुद्धा, स्थितं चतुःषष्ट्यधिकं शतं १६४, ततोऽपि चतुस्त्रिशेन शतेन मूलं शुद्धं, स्थिता पश्चात्रिंशत् ३०, आगतं पूर्वाषाढानक्षत्रस्य त्रिंशतं चतुस्त्रिंशदधिक शतभागानामवगाह्य व्युत्तरचतुःशततमं स्वमृतुं चन्द्रः परिसमापयति ॥ २७८ ॥ ॥ इति श्रीमलयगिरिविरचितायां ज्योतिष्करण्डकटीकायां चतुर्दशं ऋतुपरिमाण-प्रतिपादकं प्राभृतं परिसमाप्तम् ॥ ગાથાર્થ : તે જ ધ્રુવરાશિ અને તે જ ગુણરાશિ બને છે. હવે પૂર્વે કહેલા નક્ષત્ર शोधन . ॥ २७८ ॥ ટીકાર્ય : યુગમાં ચંદ્ર ઋતુનો નક્ષત્ર યોગ જાણવા માટે તે જ ૩૦૫નો ધ્રુવરાશિ જાણવો. ગુણાકાર રાશિઓ પણ એકાદિકા દ્વિ ઉત્તરવૃદ્ધિકા તે જ થતી જાણવી જે પૂર્વોદષ્ટિ હતી. નક્ષત્ર શોધનકો પણ તે જ જાણવા જે પૂર્વે કહેલા છે ૪૨ વગેરે તેથી
SR No.022166
Book TitleJyotish Karandakam
Original Sutra AuthorN/A
AuthorParshvaratnasagar
PublisherOmkarsuri Aradhana Bhavan
Publication Year2013
Total Pages466
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Book_Gujarati, & agam_anykaalin
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy