________________
अधिकार चौदमो ऋतु परिमाण
२७५
-
सप्तष्टिः शोध्या, सैव सप्तषष्टिः 'समे' समक्षेत्रे द्विगुणिता सती शोध्या, चतुस्त्रिंशं शतं शोध्यमित्यर्थः । 'द्व्यर्थे' द्व्यर्धक्षेत्रे सैव सप्तषष्टिः - त्रिगुणिता सती शोध्या, एकोत्तरे द्वे शते तत्र शोध्ये इति भाव:, इह सूर्यस्य पुष्यादीनि नक्षत्राणि शोध्यानि, चन्द्रस्याभिजिदादीनि, तत्र सूर्यनक्षत्रयोगचिन्तायां पुष्ये- पुष्यविषया अष्टाशीतिः शोध्या, चन्द्रनक्षत्रयोगचिन्तायामभिजिति द्विचत्वारिंशत् ॥ २७९ ॥ ' एतानि' अनन्तरोदितानि अर्द्धक्षेत्रसमक्षेत्रव्यर्द्धक्षेत्रविषयाणि शोधनकानि शोधयित्वा यदुक्तप्रकारेण नक्षत्रं शेषं भवति-न सर्वात्मना शुद्धिमश्नुते तन्नक्षत्रं 'रविसोमयो:' सूर्यस्य चन्द्रमसश्च नियमाज्ज्ञातव्यम् । त्रिंशत्यपि ऋतुसमाप्तिषु । एवं करणगाथात्रयार्थः । सम्प्रति करणभावना क्रियते तत्र प्रथम ऋतुः कस्मिन् चन्द्रनक्षत्रे समाप्तिमुपैतीति जिज्ञासायामनन्तरोदितः पंचोत्तरत्रिशतीप्रमाणो ध्रुवराशिर्धियते, स एकेन गुण्यते, एकेन गुणितं तदेव भवतीति तावानेव ध्रुवराशिर्जातः, तत्राभिजितो द्वाचत्वारिंशच्छुद्धा, स्थिते पश्चाद् द्वे शते त्रिषष्ट्यधिके २६३, ततश्चतुस्त्रिंशेन शतेन श्रवणः शुद्धः, शेषं जातमेकोनत्रिंशं शतं १२९, तेन च धनिष्ठा न शुध्यति, तत आगतमेकोनत्रिंशं शतं चतुस्त्रिंशदधिकशतभागानां धनिष्ठासत्कमवगाह्य चन्द्रः प्रथमतः सूर्य समापयति, यदि द्वितीयसूर्यर्त्तुजिज्ञासा तदा स ध्रुवराशि: पंचोत्तरशतत्रयप्रमाणस्त्रिभिर्गुण्यते, जातानि नव शतानि पंचदशोत्तराणि ९१५, तत्राभिजितो द्वाचत्वारिंशच्छुद्धा, स्थितानि शेषाण्यष्टौ शतानि त्रिसप्तत्यधिकानि ८७३, ततश्चतुस्त्रिंशेन शतेन श्रवणः शुद्धिमुपगतः, स्थितानि शेषाणि सप्त शतानि एकोनचत्वारिंशदधिकानि ७३९, ततोऽपि चतुस्त्रिंशेन शतेन धनिष्ठा शुद्धा, जातानि षट् शतानि पंचोत्तराणि ६०५, ततोऽपि सप्तषष्ट्या शतभिषक् शुद्धा, स्थितानि-पश्चात्पंच शतान्यष्टत्रिंशदधिकानि ५३८, तेभ्योऽपि चतुरिंद्र्शेन शतेन पूर्वभद्रपदा शुद्धा, स्थितानि चत्वारि शतानि चतुराधिकानि ४०४, ततो द्वाभ्यां शताभ्योमेकोत्तराभ्यामुत्तरभद्रपदा शुद्धा, स्थिते शेषे त्र्युत्तरे द्वे शते २०३, ताभ्यामपि चतुस्त्रिंशदधिकेन शतेन रेवती शुद्धा, स्थिता पश्चादेकोनसप्ततिः ६९, आगतमश्विनीनक्षत्रस्यैकोनसप्ततिं चतुस्त्रिंशदधिकशतभागानामवगाह्य द्वितीयं सूर्य चन्द्रः परिसमापयति, एवं शेषेष्वपि ऋतुषु भावनीयं, त्रिंशत्तमसूर्यर्त्तुजिज्ञासायां स एव ध्रुवराशिः पंचोत्तरशतत्रयसंख्य एकोनषष्ट्या गुण्यते, जातानि सप्तदश सहस्राणि नव शतानि पंचनवत्यधिकानि १७९९५, तत्र षट्त्रिंशता शतैः षष्ट्यधिकैरेको नक्षत्रपर्यायः शुध्यति, ततः षट्त्रिंशच्छतानि षष्ट्यधिकानि चतुर्भिर्गुणयित्वा ततः शोध्यन्ते, स्थितानि पश्चात् त्रयस्त्रिंशच्छतानि पंचपंचाशदधिकानि ३३५५, ताभ्यां द्वात्रिंशता शतैः पंचविंशत्यधिकैरभिजिदादीनि मूलपर्यन्तानि शुद्धानि, स्थितं
-