SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ २५८ ज्योतिष्करण्डकम् उपरितनो राशिः षष्ट्या गुण्यते, जातानि चतुष्पंचाशत्सहस्राणि नव शतानि ५४९००, ततोऽस्य राशेश्चतुष्केनापवर्तना क्रियते, जात उपरितनो राशिस्त्रयोदश सहस्राणि सप्त शतानि पंचविंशत्यधिकानि १३७२५, छेदराशिट्टे शते एकविंशत्यधिके २२१, तत्र छेदराशिना उपरितनस्य राशेर्भागे हृते लब्धा द्वाषाष्टिर्मुहूर्ताः, उपरि चांशा उद्धरन्ति त्रयोविंशतिः ६२२३।२२१ एतावता कालेन चन्द्रः सर्वाभ्यन्तरं मण्डलं भ्रमणेन परिसमाप्नोति ॥ २५८ ॥ अधुना मण्डले मण्डले प्रतिमुहूर्तं गतिपरिमाणमाह एएण उ भइयव्वो मंडलरासी हविज्ज जं लद्धं । सा सोममुहुत्तगई तर्हि तर्हि मंडले नियया ॥ २५९ ॥ एतेन-अनन्तरोदितेन परिसमाप्तिकालेन मण्डलराशि:-मण्डलपरिरयराशिभक्तव्यः, भक्ते च तस्मिन् यद् भवति लब्धं सा 'सोमस्य' चन्द्रमसस्तस्मिन् तस्मिन् मण्डले नियता मुहूर्तगतिः-मुहूर्तगतिपरिमाणं, तत्र मण्डलपरिसमाप्तिकालो द्वाषष्टिर्मुहूर्ताः एकस्यैकविशत्यधिकशतद्वयच्छेदकृतास्त्रयोविंशतिरंशाः ततः सवर्णनार्थं मुहूर्तोऽपि द्वाभ्यां शताभ्यामेकविंशत्यधिकाभ्यां गुण्यते, गुणयित्वा चोपरितनास्त्रयोविंशतिरंशाः प्रक्षिप्यन्ते, जातानि त्रयोदश सहस्राणि सप्त शतानि पंचविंशत्यधिकानि १३७२५, सर्वाभ्यन्तरे चन्द्रमण्डलपरिरयपरिमाणं त्रीणि योजनलक्षाणि पंचदश सहस्राणि नवाशीत्यधिकानि ३१५०८९, इह छेदराशिः मुहूर्तांशराशिरूपस्ततः परिरयपरिमाणमपि द्वाभ्यां शताभ्यामेक विंशत्यधिकाभ्यां गुण्यते, जातः षट्को नवकः षट्कस्त्रिकश्चतुष्कः षट्कः षट्को नवकः ६९६३४६६९, तत एतेषां त्रयोदशभिः सहस्रैः सप्तभि : शतैः पंचविंशत्यधिकैर्भागो ह्रियते, हृते च भागे लब्धानि पंच योजनसहस्राणि त्रिसप्तत्यधिकानि, अंशाश्च सप्तसप्ततिशतानि चतुश्चत्वारिंशदधिकानि ५०७३-७७४४।१३७२५ एतावती सर्वाभ्यन्तरे मण्डले चन्द्रमसः प्रतिमुहूर्तं गतिः, द्वितीये चन्द्रमण्डले परिरयपरिमाणं त्रीणि लक्षाणि पंचदश सहस्राणि त्रीणि शतान्येकोविंशत्यधिकानि ३१५३१९, एतद् द्वाभ्यां शताभ्यामेकविंशत्यधिकाभ्यां गुण्यते, जातः षट्को नवकः षट्कोऽष्टकः पंचकश्चतुष्को नवको नवकः ६९६८५४९९, एतेषां त्रयोदशभिः सहस्रैः सप्तभिः शतैः पंचविंशत्यधिकैर्भागो ह्रियते, लब्धानि पंच योजनसहस्राणि सप्तसप्तत्यधिकानि अंशाः षट्त्रिंशच्छतानि चतुःसप्तत्यधिकानि ५०७७३६७४।१३७२५ एतावती द्वितीये मण्डले चन्द्रमसः प्रतिमुहूर्त गतिः तृतीये मण्डले परिरयपरिमाणं त्रीणि लक्षाणि पंचदश सहस्राणि पंच शतान्येकोनपंचाशदधिकानि
SR No.022166
Book TitleJyotish Karandakam
Original Sutra AuthorN/A
AuthorParshvaratnasagar
PublisherOmkarsuri Aradhana Bhavan
Publication Year2013
Total Pages466
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Book_Gujarati, & agam_anykaalin
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy