SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ २३४ ज्योतिष्करण्डकम् षड् मुहूर्ताः, ते पूर्वमुहूर्तराशौ प्रक्षिप्यन्ते, जाता: सर्वसंख्यया मुहूर्तानां पंच शतानि त्रिसप्तत्यधिकानि ५७३, शेषं चोद्धरति-एकोनचत्वारिंशत्, सा द्वाषष्ट्या गुण्यते, जातानि चतुर्विशानि शतानि अष्टादशाधिकानि २४१८, तेषां सप्तषष्ट्या भागो ह्रियते, लब्धाः षट्त्रिंशद्वाषष्टिभागाः, शेषास्तिष्ठन्ति षट्, ते चैकस्य द्वाषष्टिभागस्य सत्काः सप्तषष्टिभागाः, एते चातिश्लक्ष्णरूपा भागा इति चूर्णिका भागा व्यपदिश्यन्ते ॥ २४१ ॥ तदेवमुक्तो ध्रुवराशिः, सम्प्रति करणमाह आउट्टीहिं एगूणियाहिं गुणितो हवेज्ज धुवरासी । एयं मुहुत्तगणियं एत्तो वोच्छामि सोहणगं ॥ २४२ ॥ यस्यां यस्यामावृत्तौ नक्षत्रयोगो ज्ञातुमिष्यते तया तयाऽऽवृत्त्या ‘एकोनिकया' एकरूपहीनया गुणितः अनन्तरोदितस्वरूपो ध्रुवराशिर्भवेद् यावान् एतन्मुहूर्तपरिमाणं, अत ऊर्ध्वं वक्ष्यामि शोधनकं ॥ २४२ ॥ तत्र प्रथमतोऽभिजितो नक्षत्रस्य शोधनकमाह अभिइस्स नव मुहुत्ता बिसट्ठिभागा य होंति चउवीसं । छावट्ठी य समग्गा भागा सत्तट्टिछेयकया ॥ २४३ ॥ उगुणटुं पोट्ठवया तिसु चेव नवोत्तरेसु रोहिणिया । तिसु नवनईसु भवे पुणव्वसू उत्तराफग्गू ॥ २४४ ॥ पंचेव अउणपन्नासयाइं उगुणत्तराई छच्चेव । सोज्झाणि विसाहाणं मूले सत्तेव चोयाला ॥ २४५ ॥ अट्ठसयमुगुणवीसा सोहणगं उत्तराअसाढाणं । चउवीसं खलु भागा छावट्ठी चुण्णिया भाया ॥ २४६ ॥ अभिजितः-अभिजिन्नक्षत्रस्य शोधनकं नव मुहूर्ताः एकस्य च मुहूर्त्तस्य चतुर्विंशतिषिष्टिभागाः एकस्य च द्वाषष्टिभागस्य सत्काः सप्तषष्टिच्छेदकृताः 'समग्राः' परिपूर्णाः षट्षष्टिभागाः, कथमेतस्योत्पत्तिः इति चेद् उच्यते, इहाभिजितोऽहोरात्रसत्का एकविंशतिः सप्तषष्टिभागाश्चन्द्रेण योगस्ततोऽहोरात्रे त्रिंशन्मुहूर्ता इति मुहूर्तकरणार्थं सा एकविंशतिस्त्रिंशता गुण्यते, जातानि षट् शतानि त्रिंशदधिकानि ६३०, तेषां सप्तषष्ट्या भागो हियते, लब्धा नव मुहूर्ताः, शेषास्तिष्ठन्ति सप्तविंशतिः, सा द्वाषष्टिभागकरणार्थं द्वाषष्ट्या गुण्यन्ते, जातानि षोडश शतानि चतुःसप्तत्यधिकानि १६७४, तेषां सप्तषष्ट्या
SR No.022166
Book TitleJyotish Karandakam
Original Sutra AuthorN/A
AuthorParshvaratnasagar
PublisherOmkarsuri Aradhana Bhavan
Publication Year2013
Total Pages466
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Book_Gujarati, & agam_anykaalin
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy