SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ २३२ ज्योतिष्करण्डकम् ___ आवृत्तिभिरेकोनिकाभिर्गुणितं शतं त्र्यशीत्यधिकं, किमुक्तं भवति ? याऽऽवृत्तिविशिष्टतिथियुक्ता ज्ञातुमिष्यते तत्संख्या एकोना क्रियते, ततस्तया त्र्यशीत्यधिकं शतं गुण्यते, गुणयित्वा च येनांकस्थानेन गुणितं त्र्यशीत्यधिकं शतं तदंकस्थानं त्रिगुणं कृत्वा रूपाधिकं सत् तत्र-पूर्वराशौ प्रक्षिप्यते, ततः पंचदशभिर्भागो हियते, हृते च भागे यल्लब्धं 'ततिषु' तावत्संख्याकेषु पर्वस्वतिक्रान्तेषु सा विवक्षिताऽऽवृत्तिर्भवति, ये त्वंशाः पश्चादुद्धरितास्ते दिवसा ज्ञातव्याः, तत्र तेषु दिवसेषु मध्ये चरमदिवसे आवृत्तिर्बोद्धव्येति भावः, इहावृत्तीनामेवं क्रमो-युगे प्रथमाऽऽवृत्तिः श्रावणे मासे, द्वितीया माघे मासे, तृतीया भूयः श्रावणे मासे चतुर्थी माघमासे पुनरपि पंचमी श्रावणे षष्ठी माघे भूयः सप्तमी श्रावणे अष्टमी माघे नवमी श्रावणे दशमी माघमासे इति, तत्र प्रथमा किलावृत्तिः कस्यां तिथौ भवति ? इति यदि जिज्ञासा तदा प्रथमावृत्तिस्थाने एकको ध्रियते, सा रूपोना क्रियत इति न किमपि पश्चाद्रूपं प्राप्यते, ततः पाश्चात्ययुगभावनी या दशमी आवृत्तिस्तत्संख्या दशकरूपा ध्रियते, तदा (या) त्र्यशीत्यधिकं शतं गुण्यते, जातान्यष्टादश शतानि त्रिंशदधिकानि १८३०, दशकेन किल गुणितं त्र्यशीत्यधिकं शतं ततस्ते दश त्रिगुणीक्रियन्ते, जातास्त्रिंशत्, सा रूपाधिका विधेया, जाता एकत्रिंशत्, सा पूर्वराशौ प्रक्षिप्यत, जातान्यष्टादश शतान्येकषष्ट्याधिकानि १८६१, तेषां पंचदशभिर्भागो हियते, लब्धा चतुर्विंशतिः एकशता, शेषं तिष्ठत्येकं रूपम्, आगतं चतुर्विंशतिशतपर्वात्मके पाश्चात्ये युगेऽतिक्रान्तेऽभिनवे युगे प्रवर्त्तमाने प्रथमाऽऽवृत्तिः प्रथमायां तिथौ प्रतिपदि भवतीति, तथा कस्यां तिथौ द्वितीया माघमासभाविन्यावृत्तिर्भवतीति यदि जिज्ञासा ततो द्विको ध्रियते, स रूपोनः कार्य इति जात एककः, तेन त्र्यशीत्यधिकं शतं गुण्यते, 'एकेन च गुणितं तदेव भवतीति [जातं] त्र्यशीत्यधिकमेव शतम्, एकेन च गुणितं किल त्र्यशीत्यधिकं शतमित्येकस्त्रिगुणीक्रियते, जातस्त्रिकः, स रूपाधिको विधीयते इति जाताश्चत्वारः, ते पूर्वराशौ प्रक्षिप्यन्ते, जातं सप्ताशीत्यधिकं शतं १८७, तस्य पंचदशभिर्भागो ह्रियते, लब्धा द्वादश, शेषाः तिष्ठन्ति सप्त, आगतं युगे द्वादशसु पर्वस्वतिक्रान्तेषु माघमासे बहुलपक्षे सप्तम्यां द्वितीया माघमासभाविनीनां मध्ये प्रथमाऽऽवृत्तिरिति, तथा तृतीया आवृत्तिः कस्यां तिथौ भवतीति जिज्ञासायां त्रिको ध्रियते, रूपोनः कर्त्तव्य इति जातो द्विकस्तेन त्र्यशीत्यधिकं शतं गुण्यते, जातानि षट्षष्ट्याधिकानि त्रीणि शतानि ३६६, द्विकेन किल गुणितं त्र्यशीत्यधिकं शतमिति द्विकस्त्रिगुणीक्रियते, जाताः षट्, ते रूपाधिकाः कियन्ते, जाताः सप्त, ते पूर्वराशौ प्रक्षिप्यन्ते, जातानि त्रीणि शतानि त्रिसप्तत्यधिकानि ३७३, तेषां पंचदशभिर्भागो हियते, लब्धाश्चतुर्विंशतिः २४, शेषास्तिष्ठन्ति
SR No.022166
Book TitleJyotish Karandakam
Original Sutra AuthorN/A
AuthorParshvaratnasagar
PublisherOmkarsuri Aradhana Bhavan
Publication Year2013
Total Pages466
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Book_Gujarati, & agam_anykaalin
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy