SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ २२४ ज्योतिष्करण्डकम् दिवसस्य चतुश्चत्वारिंशत्सप्तषष्टिभागाः १३,४४।६७ तत्र त्रयोदश दिनानि सप्तषष्टिभाग: करणार्थं सप्तषष्ट्या गुण्यंते, जातान्यष्ट शतानि एकसप्तत्यधिकानि, तत उपरितनाश्चतुश्चत्वा' रिंशत्सप्तषष्टिभागाः प्रक्षिप्यन्ते, जातानि नव शतानि पंचदशाधिकानि ९१५, एतैः पूर्वराशेर्भागे हृते लब्धा एकोनविंशतिः १९, शेषमुद्धरति सप्त शतानि द्विसप्तत्यधिकानि ७७२, तेषां दिवसानयनाय सप्तषष्ट्या भागो हियते, लब्धा एकादश दिवसाः, शेषास्तिष्ठन्ति पंचत्रिंशत् सप्तषष्टिभागाः, आगतमेकोनविंशतिश्चन्द्रायणान्यतीतानि अनन्तरमतिक्रान्तं चान्द्रायणमुत्तरायणं, दक्षिणस्य चान्द्रायणस्य सम्प्रति प्रवृत्तस्य एकादश दिवसा गताः, द्वादशस्य च दिवसस्य पंचत्रिंशत् सप्तषष्टिभागाः पंचम्यां समाप्तायां भविष्यंतीति । तथा युगमध्ये पंचविंशतिमासातिक्रमे दशम्यां केनापि पृष्टं-कियन्ति चन्द्रायणानि अतिक्रान्तानि किञ्च साम्प्रतमनन्तरमतीतं चन्द्रायणं, किं वा सम्प्रति वर्त्तते चन्द्रायणं दक्षिणमुत्तरं वा इति, तत्र पंचविंशतिमासेषु पर्वाणि पंचाशत्, तानि पंचदशभिर्गुण्यंते, जातानि सप्त शतानि पंचाशदधिकानि ७५०, तत उपरितना दश प्रक्षिप्यन्ते, जातानि सप्त शतानि षष्ट्यधिकानि ७६०, पंचविंशतिमासेषु चावमरात्रा अभवन् द्वादश, ते पूर्वराशेरपनीयन्ते, जातानि सप्त शतान्यष्टाचत्वारिंशदधिकानि ७४८, तानि सप्तषष्टिभागकरणार्थं सप्तषष्ट्या गुण्यन्ते, जातानि पंचाशत् सहस्राणि षण्णवत्यधिकानि ५००९६ (५०११६) तेषां नवभिः शतैः पंचदशोत्तरैः ९१५ भागो हियते, लब्धाश्चतुष्पञ्चाशत्, शेषमुद्धरत्यष्टौ शतानि षडशीत्यधिकानि ८८६ (७०६) तेषां दिवसानयनाय सप्तषष्ट्या भागहरणं, लब्धास्त्रयोदश [१३](दश-१०) दिवसाः, शेषास्तिष्ठन्ति पंचदश [१५] (षट्त्रिंशत् ३६) आगतं चतुष्पंचाशच्चन्द्रायणान्यतिक्रान्तानि, अनन्तरं चातिक्रान्तं चन्द्रायणं दक्षिणं, सम्प्रति वर्त्तते उत्तरं चन्द्रायणं, तस्य च त्रयोदश (१०) दिवसाः, चतुर्दशस्य (एकादशस्य ११) च दिवसस्य पंचदश (३६) सप्तषष्टिभागा दशम्यां समाप्तायां भविष्यन्तीति, एवमन्यदपि भावनीयमिति ॥ २२७-२३० ॥ ગાથાર્થ : નક્ષત્રના વિષયમાં અયનમાં અર્ધમાસે ચંદ્ર તેરમંડળ અને ચુમ્માલીસ ससहीयमा२ (१४) यारी यरे छे. ટીકાર્થઃ અહીં નક્ષત્રના અર્ધમાસનું જે પરિમાણ છે તે ચંદ્રાયણ છે. તેથી નક્ષત્રમાં જે અર્ધમાસ છે તેટલા પ્રમાણ અયનથી ચંદ્ર ૧૩ મંડળો ચારો ચરે છે. અર્થાત્ १. अनत्यं गणितं केनापि कारणेन विनष्टं, प्रत्नेऽप्यादर्श एष एव पाठ इति प्रकल्प्य नूलो न्यवेशि ( ) चिह्न॥
SR No.022166
Book TitleJyotish Karandakam
Original Sutra AuthorN/A
AuthorParshvaratnasagar
PublisherOmkarsuri Aradhana Bhavan
Publication Year2013
Total Pages466
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Book_Gujarati, & agam_anykaalin
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy