SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ २०७ अधिकार दसमो - मंडल विभाग આ રીતે સૂર્યમંડળો અને ચંદ્રમંડળોની પરસ્પર વિભાગ ભાવના કરી. આ મંડળોમાં ર સૂર્યો અને બે ચંદ્રો ચારો ચરે છે, સર્વ અત્યંતર મંડળમાં રહેલા ર સૂર્યોનું પરસ્પર અંતર પ્રમાણ જણાવે છે– બે સૂર્યો વચ્ચેનું પરસ્પર અંતર नवनई य सहस्सा छच्चेव सया हवन्ति चत्ताला । सूराण ऊ अबाहा अभितरमंडलट्ठाणं ॥ २१४ ॥ अभ्यन्तरमण्डलस्थयोः सूर्ययोः परस्परमबाधा नवनवतिः सहस्राणि षट् शतानि चत्वारिंशदधिकानि योजनानां ९९६४०, तथाहि-एकोऽपि सूर्यो जम्बूद्वीपेऽशीत्यधिकं योजनशतमवगाह्य सर्वाभ्यन्तरे मण्डले स्थितोऽपरोऽपि ततोऽशीत्यधिकं शतं द्वाभ्यां गुण्यते, जातानि त्रीणि शतानि षष्ट्यधिकानि ३६०, एतेषु जम्बूद्वीपविष्कम्भाद् योजनलक्षप्रमाणादपनीतेषु शेषं यथोक्तपरिमाणं भवति, यदा तु सर्वाभ्यन्तरानन्तरे द्वितीये मण्डले उपसंक्रम्य सूर्यौ चारं चरतस्तदा तयोः परस्परमन्तरं नवनवतियोजनसहस्राणि षट् शतानि पंचचत्वारिंशदधिकानि पंचत्रिंशच्चैकषष्टिभागा योजनस्य ९९६४५-३५।६१ तथाहि-एकोऽपि सूर्यो द्वितीये मण्डले संक्रामन् द्वे योजने अष्टचत्वारिंशच्चैकषष्टिभागान् विमुच्य संक्रामति, द्वितीयोऽपि, सूर्यविकम्पस्यैतावत्प्रमाणत्वात्, एतच्च प्रागेव भावितं, ततः पंच योजनानि पंचत्रिंशच्चैकषष्टिभागा योजनस्य द्वितीये मण्डले सूर्ययोः परस्परमन्तरचिन्तायामधिकत्वेन प्राप्यन्ते, एवमग्रेतनेष्वपि मण्डलेषु भावनीयं, यदा तु सर्वाभ्यन्तरात् मण्डलात् तृतीये मण्डले सूर्यो चारं चरतस्तदाऽनयोः परस्परमन्तरं नवनवतियोजनसहस्राणि षट् शतानि एकपंचाशदधिकानि नव चैकषष्टिभागा योजनस्य ९९६५१, ९।६१ एवं सर्वाभ्यन्तरान्मण्डलाबाह्येषु मण्डलेषु संक्रामतोः सूर्ययोः परस्परमन्तरचिन्तायां मण्डले मण्डले पंच योजनानि पंचत्रिंशच्चैकषष्टिभागा योजनस्य वृद्धिस्तावन्मन्तव्या यावत्सर्वबाह्यं मण्डलम् ॥ २१४ ॥ तस्मिश्च सर्वबाह्ये मण्डलेऽबाधापरिमाणमाह १. एतगाथानन्तरं म.वि. संस्करणे एकाधिका गाथा दृश्यते साचैवं - 'एक्वंच सयसहस्सं सतं दिवड्डे अंतरं होति । सूरस्स य सूरस्स य मज्झिमए मंडलठिताणं ॥ २२६ ॥' (छाया०) एकं च शतसहस्रं शतं व्यर्द्ध चान्तरं भवति । सूर्यस्य च सूर्यस्य च मध्यमे मण्डले स्थितयोः॥ (અનુ.) મધ્યમ મંડળમાં રહેલા બે સૂર્યો વચ્ચેનું અંતર એક લાખ અને એકસો પચાસ (૧૦૦૧૫૦) યોજન જેટલું હોય છે.
SR No.022166
Book TitleJyotish Karandakam
Original Sutra AuthorN/A
AuthorParshvaratnasagar
PublisherOmkarsuri Aradhana Bhavan
Publication Year2013
Total Pages466
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Book_Gujarati, & agam_anykaalin
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy