SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ १८८ ज्योतिष्करण्डकम् એક અયનમાં ચંદ્ર કે સૂર્ય તિરછું જેટલું ક્ષેત્ર પસાર કરે છે તેનું પરિમાણ કહે છે. पंचेव जोयणसया दसुत्तरा जत्थ मंडला होति । जं अक्कमेइ तिरियं चंदो सूरो य अयणेणं ॥ २०३ ॥ यत्क्षेत्रं चन्द्रः सूर्यो वा एकनायनेन तिर्यगाक्रामति-यत्र चन्द्रमसः सूर्यस्य वा मण्डलानि भवन्ति तस्य क्षेत्रस्य परिमाणं पंच योजनशतानि दशोत्तराणि, नवरं चन्द्रमसमधिकृत्याष्टभिरेकषष्टिभागैन्यूनानि, तथाहि-एकस्मिन्नयने सूर्यविकम्पानां त्र्यशीत्यधिकं शतं भवति, एकैकस्य सूर्यविकम्पस्य परिमाणमेकषष्टिभागरूपं सप्तत्यधिकं शतं १७०, ततश्च यशीत्यधिकं शतमेकेन सप्तत्यधिकेन शतेन गुण्यते, जातान्येकत्रिंशत्सहस्राणि शतमेकं दशोत्तरं ३१११०, तत एतेषां योजनानयनार्थमेकषष्ट्या भागो हियते, लब्धानि पंच योजनशतानि दशाधिकानि ५१०, एतावत्सर्वाभ्यन्तरमण्डलात्परत एकेनायनेन सूर्यस्तिर्यक् क्षेत्रमाक्रामति, तथैकस्मिन्नयने चन्द्रविकम्पाश्चतुर्दश, एकस्य चन्द्रविकम्पस्य परिमाणं षट्त्रिंशद् योजनानि पंचविंशतिरेकषष्टिभागा योजनस्य एकस्य चैकषष्टिभागस्य सप्तधाछिनस्य चत्वारो भागाः, योजनराशिरेकषष्टिभागकरणार्थमेकषष्ट्या गुण्यते, जातान्येकविंशतिशतानि षण्णवत्यधिकानि २१९६, तत उपरितना: पंचविंशतिरेकषष्टिभागाः प्रक्षिप्यन्ते, जातानि द्वाविंशतिशतान्येकविंशत्यधिकानि २२२१, चतुर्दश च सर्वसंख्यया चन्द्रमसो विकम्पास्ततो द्वाविंशतिशतान्येकविंशत्यधिकानि चतुर्दशभिर्गुण्यन्ते, जातान्येकत्रिंशत्सहस्राणि चतुर्नवत्यधिकानि ३१०९४, येऽपि चैकस्यैकषष्टिभागस्य सप्तधाछिन्नस्य सत्काश्चत्वारो भागास्तेऽपि चतुर्दशभिर्गुण्यन्ते, जाताः षट्पंचाशत् ५६, तस्याश्च षट्पंचाशतः सप्तभिर्भागे हृते लब्धा अष्टौ, ते पूर्वराशौ प्रक्षिप्यन्ते, जातः पूर्वराशिरेकत्रिंशत्सहस्राणि शतमेकं द्वयत्तुरं ३११०२, तेषां योजनानयनार्थमेकषष्ट्या भागो हियते, लब्धानि पंच योजनशतानि नवोत्तराणि त्रिपंचाशच्चैकषष्टिभागा योजनस्य ५०९-५३।६१, पंचयोजनशतानि दशोत्तराणि अष्टभिरेक षष्टिभागै_नानीत्यर्थः, एतावत्सर्वाभ्यन्तरात् मण्डलात्परत एकेनायनेन चन्द्रस्तिर्यक् क्षेत्रमाक्रामति, एवंरूपा च क्षेत्रकाष्टा मूलटीकायामपि भाविता, तथा च तद्गन्थः १. एतद्गाथानन्तरं पासू० जेटि० खंटि० आदर्शेषु सटिप्पनिका दृश्यत एषा गाथा- 'सूरस्सेसा कट्ठा अट्ठहिँ भागेर्हि ऊणिया नियमा । एगट्ठिभागछेज्जा कट्ठा चंदस्स एवतिया ॥ २१४ ॥ टि० सूरस्स पंचजोयणसया दशाधिया ५१० कट्ठा । सच्चव अहिं एगट्ठिभागेहिं% ऊणा चंदकट्ठा हवति त्ति ॥ Aएतस्याः छायाऽनुवादार्थे तृतीयं परिशिष्टं पश्यताम् । A
SR No.022166
Book TitleJyotish Karandakam
Original Sutra AuthorN/A
AuthorParshvaratnasagar
PublisherOmkarsuri Aradhana Bhavan
Publication Year2013
Total Pages466
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Book_Gujarati, & agam_anykaalin
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy