SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ अधिकार दसमो - मंडल विभाग १७१ सप्तकोटीशतानि नवतिः कोट्यः षट्पंचाशल्लक्षाः पंचसप्ततिः सहस्राणि ७९०५६७५०००, गव्यूतत्रितयमपि पंचविंशतिसहस्रगुणं क्रियते, जातानि पंचसप्ततिः सहस्राणि गव्यूतानां ७५०००, तेषां चतुर्भिर्भागो हियते, लब्धानि योजनानामष्टादश सहस्राणि सप्त शतानि पंचाशदधिकानि १८७५०, एष राशिः पूर्वस्मिन् योजनराशौ प्रक्षिप्यते, ततः धनुषामष्टाविंशं शतं पंचविंशतिसहस्रैर्गुण्यते, जाता द्वात्रिंशल्लक्षाः ३२०००००, अष्टाभिश्च धनुःसहस्रैर्योजनं भवति, ततो योजनानयनार्थमष्टाभिः सहस्रैर्भागो ह्रियते, लब्धानि चत्वारि शतानि ४००, अयमपि पूर्वराशौ प्रक्षिप्यते, अंगुलान्यपि त्रयोदश पंचविंशतिसहस्रगुणानि क्रियन्ते, जातानि त्रीणि लक्षाणि पंचविंशतिः सहस्राभ्याधिकानि ३२५०००, अर्धांगुलमपि पंचविंशतिसहस्रैर्गुण्यते, जातान्यभॊगुलानां पंचविंशतिसहस्राणि, तेषामद्धे लब्धान्यंगुलानां द्वादश सहस्राणि पंचशताभ्यधिकानि १२५००, तानि पूर्वोक्तेऽगुलराशौ प्रक्षिप्यन्ते, ततोऽगुलराशिः त्रीणि शतसहस्राणि सप्तत्रिंशत् सहस्राणि पंचशताधिकानि ३३७५००, तत एतेषां धनुरानयनाय षण्णवत्या भागो हियते, लब्धानि धनुषां पंचत्रिंशच्छतानि पंचदशाधिकानि ३५१५, शेषमुद्वरत्यंगुलानां षष्टिः, अस्य च धनूराशेर्गव्यूतानयनाय सहस्रद्वयेन भागो ह्रियते, लब्धमेकं गव्यूतं, शेषमुद्वरति धनुषां पंचदश शतानि पंचदशाधिकानि १५१५, सर्वसंख्यया जातमिदं-योजनानां सप्त कोटिशतानि नवतिकोट्यभ्यधिकानि षट्पंचाशल्लक्षाश्चतुर्नवतिसहस्राणि शतमेकं पंचाशदधिकं, तथा गव्यूतमेकं, तथा धनुषां पंचदश शतानि पंचदशाधिकानि षष्टिः अंगुलानामिति, एतावज्जम्बूद्वीपे गणितपदम्, एतावन्ति योजनप्रमाणानि चतुरस्राणि चतुरस्राणि खण्डानि यथोक्तगव्यूताद्यधिकानि जम्बूद्वीपे भवन्तीत्यर्थः, तथाचाह-'सत्तेव य कोडिसया नउया छप्पन्नसयसहस्साई । चउणउइं च सहस्सा सयं दिवढे च साहीयं ॥१॥" साधिकत्वप्रतिपादिका चेयं गाथा-"गोउयमेगं पन्नरस धणुसया तह धणि पन्नरस । सर्द्धि च अंगुलाई जंबूदीवस्स गणियपयं ॥ १ ॥" १८६-१८७ ॥ तदेवमुक्ता जम्बूद्वीपवक्तव्यता, संप्रति जम्बूद्वीपमध्यगतमेरुवक्तव्यतामाह ગાથાર્થ - વિખંભના વર્ગને ૧૦ ગુણ કરી વર્ગમૂળ કાઢતાં વૃત્તનો પરિચય થાય છે તથા તેનો પરિરય વિખંભના ૪થા ભાગથી ગુણેલો ગણિતપદ (ક્ષેત્રફળ) થાય છે. १. सप्तैव च कोटिशतानि नवति षट्पञ्चाशच्छतसहस्राणि । चतुर्नवति च सहस्रा शतं द्वयर्थं च सहितम् । २. गव्युतमेकं पञ्चदश धनुःशतानि तथा धनुषि पञ्चदश । षष्ठिश्चाङ्गुलानि जम्बूद्वीपस्य गणितपदम् ॥
SR No.022166
Book TitleJyotish Karandakam
Original Sutra AuthorN/A
AuthorParshvaratnasagar
PublisherOmkarsuri Aradhana Bhavan
Publication Year2013
Total Pages466
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Book_Gujarati, & agam_anykaalin
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy