________________
अधिकार-७ : थंद्र-सूर्य परिभाए।
तदेवमुक्तं नक्षत्रपरिमाणनामकं षष्ठं प्राभृतं सम्प्रति चन्द्रसूर्यमण्डलविष्कम्भप्रतिपादकं चन्द्रसूर्यपरिमाणनामकं सप्तमं प्राभृतं विवक्षुराह—
एत्तो परं तु वोच्छं विक्खंभं चंदसूराणं ॥ १४३ ॥
गट्टिभागे छेत्तूण जोयणं तस्स होंति जे भागा । ते चंदा छप्पन्नं अडयालीसं भवे सूरा ॥ १४४ ॥
अत:-सीमापरिमाणप्रतिपादनात् परम् - ऊर्ध्वं चंद्रसूर्याणां चन्द्रसूर्यमण्डलानां विष्कम्भं वक्ष्ये ॥ १४३ ॥ तमेवाह - एकषष्ट्या योजनं प्रमाणांगुलनिष्पन्नं छित्त्वा तस्य भवन्ति ये भागा एकषष्टिसंख्यास्ते च चंद्र:- चन्द्रमण्डलं षट्पंचाशद् भवन्ति, सूर्य:- सूर्यमण्डलं भवन्त्यष्टाचत्वारिंशद्भागाः, किमुक्तं भवति ? - योजनस्यैकषष्टिभागाः षट्पंचाशत् चन्द्रमण्डलस्य विष्कम्भपरिमाणं, सूर्यमण्डलस्याष्टाचत्वारिंशत्, एतदेव गव्यूतपरिमाणेन चिन्त्यते, तत्र चतुर्गव्यूतं योजनमिति षट्पंचाशच्चतुर्भिर्गुण्यते, जाते द्वे शते चतुर्विंशत्यधिके २२४, तयोरेकषष्ट्या भागे हृते लब्धास्त्रयः क्रोशाः, एकस्य च क्रोशस्यैकचत्वारिंशदेकषष्टिभागाः, विष्कम्भार्द्ध चोत्सेधस्ततोऽष्टाविंशतिरेकषष्टिभागा योजनस्योत्सेधपरिमाणं चन्द्रमण्डलस्य, सार्द्धगव्यूतमेकचत्वारिंशद् द्वाविंशत्यधिकशतभागा गव्यूतस्य, तथा सूर्यमण्डलस्याष्टाचत्वारिंशद्भागा योजनस्य चतुर्भिर्गुण्यन्ते, जातं द्विनवत्यधिकं शतं १९२, तस्यैकषष्ट्या भागो ह्रियते, लब्धास्त्रयः क्रोशाः, क्रोशस्य च नवैकषष्टिभागाः, विष्कम्भार्धं चोत्सेध इत्युत्सेधपरिमाणं चतुर्विंशतिरेकषष्टिभागा योजनस्य, यदिवा द्वयर्द्धं गव्यूतं नव च द्वाविंशत्यधिक शतभागा गव्यूतस्य, तथा चन्द्रमण्डलस्यपरिघेः परिमाणं द्वे योजने त्रयः क्रोशा एकस्य च