SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ अधिकार पांचमो - अवमरात्रि १०१ मित्येकस्माद्-अन्यतरस्मान्मासाद्, अत्र स्थानियपः कर्माधारयोः इत्यनेन पंचमी, ततोऽयमर्थः-एकमपरं मासमधिकृत्यैकस्यान्यतरस्य मासस्य वृद्ध्यपवृद्धी भवतः, किमुक्तं भवति ? कर्ममासमपेक्ष्य चन्द्रमासचिन्तायां कालस्यापवृद्धिः सूर्यमासचिन्तायां वृद्धिः, स्वरूपापेक्षया तु त्रयोऽपि मासाः सदा प्रतिनियतस्वरूपभावाः परावर्तन्ते इति न तेन कश्चित्कालस्य वृद्धिहानिसम्भवः ॥ १०८ ॥ सम्प्रति ते एव वृद्धिहानी दिदर्शयिषुः कर्ममासमपेक्ष्य चन्द्रमासचिन्तायां कालस्य हानि दर्शयति-इह कर्ममासः परिपूर्णत्रिंशदहोरात्रप्रमाणः, चन्द्रमास एकोनत्रिंशदहोरात्रा द्वात्रिंशच्च द्वाषष्टिभागा अहोरात्रस्य, ततश्चन्द्रमासपरिमाणस्य ऋतुमासस्य च, कर्ममासपरिमाणस्य चेत्यर्थः, परस्परं विश्लेषः क्रियते, विश्लेषे च कृते सति येऽशा उद्धरिता दृश्यन्ते त्रिंशद् द्वाषष्टिभागरूपास्तेऽवमरात्रस्य भागाः, तदवमरात्रं परिपूर्णं भवति मासद्वयपर्यन्ते, पूर्णाः तस्य सत्कास्ते भागा मासस्यावसाने द्रष्टव्याः, किमुक्तं भवति ? - एकस्मिन् कर्ममासे परिपूर्णे सति त्रिंशद द्वाषष्टिभागा अवमरात्रस्य सम्बन्धिनः प्राप्यन्त इति ॥ १०९ ॥ यदि मासपर्यन्ते एतावन्तोऽवमरात्रभागाः प्राप्यन्ते ततः प्रतिदिवसं कति प्राप्यन्ते ? इति तन्निरूपणार्थमाहएकस्मिन्-एकैकस्मिन् दिवसे कर्ममाससम्बन्धिन्यवमरात्रसम्बन्धी द्वाषष्टिभाग एक:-एकैकः संजायते, सूत्रे च नपुंसकता प्राकृतत्वात्, कथमेतदवसीयते ? इति चेदुच्यते-त्रैराशिकबलात्, तथाहि-यत एकैकस्मिन् दिवसे एकैको द्वाषष्टिभागोऽवमरात्रस्य सम्बन्धी प्राप्यते, ततो द्वाषष्ट्या दिवसैरेकमवमरात्रं भवति, राशित्रयस्य स्थापना ३०।३० ।१ अत्रान्त्येन राशिना एकलक्षणेन मध्यमस्य राशेत्रिंशद्रूपस्य गुणनम्, एकेन गुणितं तदेव भवतीति जातात्रिंशदेव, तस्या आदिराशिना त्रिंशता भागे हृते लब्ध एकः, आगतं प्रतिदिवसमेकैको द्वाषष्टिभागो लभ्यते, किमुक्तं भवति ? - दिवसे दिवसेऽवमरात्रस्यैकैकद्वाषष्टिभागवृद्ध्या द्वाषष्टितमे दिवसे त्रिषष्टितमा तिथिः प्रवर्त्तते इति, एवं च सति य एवैकषष्टितमोऽहोरात्रस्तस्मिन्नेकषष्टितमा द्वाषष्टितमा च तिथिनिधनमुपगतेति द्वाषष्टितमा तिथिर्लोके पतितेति व्यवह्रियते ॥ ११० ॥ तथा चाह ચોથું પ્રાકૃત કહ્યું હવે અવમાત્ર પ્રતિપાદક પાંચમું પ્રાકૃત કહે છે – ગાથાર્થ વિસ્તારને છોડીને આ તિથિનિષ્પત્તિ કહી હવે કાંઈક સંક્ષેપથી અવમરાત્રિ કહીશું. કાળની જ્યાં હાનિ કે વૃદ્ધિ થતી નથી અને સદા અવસ્થિત કાળ રહે છે અને એક પછી એક માસની વૃદ્ધિ અપવૃદ્ધિ થાય છે, ચંદ્ર નક્ષત્રમાસોના જે અંશો વિશ્લેષમાં
SR No.022166
Book TitleJyotish Karandakam
Original Sutra AuthorN/A
AuthorParshvaratnasagar
PublisherOmkarsuri Aradhana Bhavan
Publication Year2013
Total Pages466
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Book_Gujarati, & agam_anykaalin
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy