SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ ૧૧૨ चिन्तामणिस्तस्य जिनेश ! पाणो कल्पद्रुमस्तस्य गृहांगणस्थः। नमस्कृतो येन सदापि भक्त्या स्तोत्रैः स्तुतोदामभिरर्चितोऽसि ॥ निमील्य नेत्रे मनसः स्थिरत्वं विधाय यावजिन! चिंतयामि । त्वमेव तावन्न परोऽस्ति देवो निःशेषकर्मक्षयहेतुरत्र ॥ ३०॥ भक्त्या स्तुता अपि परे परया परेभ्यो । - मुक्ति जिनेन्द्र ! ददते न कथंचनापि ॥ सिक्ताः सुधारसघटैरपि निम्बवृक्षा । विश्राणयन्ति न हि चूतफलं कदाचित् ॥ ३१ ॥ . भवजलनिधिमध्यान्नाथ ! निस्तार्य कार्यः । शिवनगरकुटुंबी निर्गुणोऽपि त्वयाहम् ॥ न हि गुणमगुणं वा संश्रितानां महान्तो निरुपमकरुणार्द्राः सर्वथा चिन्तयन्ति ॥ ३२ ॥ प्राप्तस्त्वं बहुभिः शुभैस्त्रिजगतश्चूडामणिर्देवता । निर्वाणप्रतिभूरसावपि गुरुः श्रीहेमचन्द्रप्रभुः ॥ तन्नातः परमस्ति वस्तु किमपि स्वामिन् ! यदभ्यर्थये । किंतु त्वद्वचनादरः प्रतिभवं स्ताद्वर्द्धमानो मम ॥ ३३ ।। इति कुमारपालभूपालकृतस्तवः
SR No.022126
Book TitleUpdesh Saptatika
Original Sutra AuthorN/A
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1920
Total Pages118
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy