SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ 93 64हेश५६ : माग-२ આ વિષે વિદ્વાનો કહે છે કે-“જે કાર્યને કરે તે જ પરમાર્થથી સત્ છે.” તેથી ઉક્ત પ્રકારનું જ્ઞાન ફળ ન મળવાથી મિથ્યાદૃષ્ટિનું શાસ્ત્રાભ્યાસ આદિથી થયેલું જ્ઞાન પણ અજ્ઞાન છે. (૪૪૪) एनामेव गाथाचतुष्टयेन व्याचष्टेएगंतणिच्चवाए, अणिच्चवाए सदसदविसेसो । पिंडो घडोत्ति पुरिसादन्नो देवोत्ति णातातो ॥४४५॥ 'एकान्तनित्यवादे' एकान्तेन स्याद्वादविपरीतरूपेण नित्यस्याप्रच्युतानुत्पन्नस्थिरैकस्वभावस्यात्मादेरभ्युपगमे क्रियमाणे परैः साङ्ख्यादिभिः, सदसदविशेषः प्राप्नोति, विवक्षितावस्थायाः सत्त्वकाले च द्रव्यस्याविशेषोऽनानात्वमापद्यते । ततो य एव पिण्डो मृदः सम्बन्धी स एव घटः, इत्यायातं मृद्रव्यस्योभयावस्थानुयायित्वम्, तिलतुषत्रिभागमात्रमपि स्वरूपभेदाभावात् । न च वक्तव्यमेकाकारेऽपि द्रव्ये पिण्डो घटश्चेत्यवस्थाभेदाश्रयोऽसौ व्यवहारो लोके न प्रवर्त्यत इति, अवस्थातुरभेदे तन्निबन्धनानामप्यभेदप्राप्तेः, कारणभेदपूर्वकत्वात् कार्यभेदस्य । यथोक्तम्-"अयमेव भेदो भेदहेतुर्वा यद् विरुद्धधर्माध्यासः कारणभेदश्च" इति । 'अनित्यवादे' चैकान्तक्षणक्षयित्वलक्षणे पुरुषाद् विहितदेवभवप्राप्तिप्रायोग्यपुण्यकर्मणः सकाशात् मरणानन्तरं देवभवप्राप्तावन्य एकान्तेनैव विलक्षणो देव इत्यापद्यते । अयमभिप्राय:यथा समुपार्जितसुकृताद् मनुष्याद् नारकतयोत्पन्नो जीवः सर्वथाऽन्य एव, तथा तद्मरणानन्तरं देवतयोत्पत्तावपि, निरन्वयोत्पादस्योभयत्रापि समानत्वात्, न चैतद् युज्यते, अकृताभ्यागमकृतनाशदोषप्रसङ्गात् । एवं च नित्यवादे य एव पिण्डः स एव घटो, य एव च घटः स एव पिण्ड इति न्यायात् सदसतोरवस्थयोरविशेषः। अनित्यवादेऽपि पुरुषादन्यो देवो देवाच्च पुरुष इति। ततो यथा पुरुषस्य विद्यमानताकाले कश्चिद्देवतयोत्पन्न एकान्तेनैवान्यस्तथा तन्मरणानन्तरमुत्पन्नोऽपि देवोऽन्य एव । ततः पुरुषसत्त्वकालेऽसत्त्वकाले च देवतयोत्पन्नो जन्तुरविशिष्ट एवेति यो न्यायस्तस्मात् सदसतोरविशेष इति ।।४४५॥ આ જ ગાથાને (=૪૪૪મી ગાથામાં કહેલા વિષયને) ચાર ગાથાઓથી કહે છે ગાથાર્થ_એકાંત નિત્યવાદમાં અને એકાંત અનિત્યવાદમાં પિંડ એ જ ઘટ જ છે. દેવ પુરુષથી અન્ય છે એ દૃષ્ટાંતથી સત્-અસનો અભેદ થાય છે. ટીકાર્થ–(આ ગાથાનાં અર્થને સમજવા સાંખ્ય આદિ દર્શનની માન્યતાને સમજવી જરૂરી છે. સાંખ્યો અભેદવાદી હોવાથી કારણ અને કાર્ય અભિન્ન છે એમ માને છે. બૌદ્ધ,
SR No.022108
Book TitleUpdeshpad Granth Part 02
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherArihant Aradhak Trust
Publication Year2006
Total Pages538
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy