SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ ૪૦૨ ઉપદેશપદ : ભાગ-૨ - રાગ-દ્વેષ એ જ પરિગ્રહ છે. કારણ કે રાગ-દ્વેષ હોય ત્યારે અવશ્ય પરિગ્રહનો ઉપયોગ થાય. આ મહાવાક્ષાર્થ છે. એ જ પ્રમાણે રાગ-દ્વેષનો અભાવ એ જ નિષ્પરિગ્રહતા છે. જો એમ ન હોય તો પરિગ્રહ હોવા છતાં રાગ-દ્વેષની નિવૃત્તિ ન થાય. (પરિગ્રહ હોવા છતાં ભરત ચક્રવર્તી વગેરેને રાગ-દ્વેષની નિવૃત્તિ થયેલી છે.) આ ઐદંપર્યાર્થ છે. આ પ્રમાણે અન્યસૂત્રોમાં પણ સમ્પગ્વિચારીને પદાર્થ વગેરેની યોજના કરવી. (૮૮૧) साम्प्रतमुक्तोपदेशव्यतिक्रमे दोषमादर्शयन्नाहइहरा अण्णयरगमा, दिट्टेट्ठविरोहणाणविरहेण । अणभिनिविट्ठस्स सुयं, इयरस्स उ मिच्छणाणंति ॥८८२॥ 'इतरथा' यथोक्तपदार्थादिविभागव्यतिक्रमेण व्याख्यानकरणे श्रुतं सम्पद्यत इत्युत्तरेण सम्बन्धः । कथमित्याह-'अन्यतरगमाद्', इह गमा अर्थमार्गाः, ते च प्रतिसूत्रमनन्ताः संभवन्ति, यथोक्तं-"सव्वनईणं जा होज, वालुया सव्वउदहिजं उदयं। एत्तो य अणंतगुणो, अत्थो एगस्स सुत्तस्स ॥१॥" अतोऽन्यतरश्चासौ गमश्शान्यतरगमस्तस्मादेकस्यैवार्थमार्गस्याचालिताप्रत्यवस्थापितस्य समाश्रयणादित्यर्थः, 'दृष्टेष्टविरोधज्ञानविरहेण' दृष्टः प्रत्यक्षानुमानप्रमाणोपलब्धः, इष्टश्च शास्त्रादिष्टोऽर्थस्तयोर्विरोधे बाधायां यज्ज्ञानमवबोधस्तस्य विरहेणाभावेन, अनभिनिविष्टस्येत्थमेवेदं वस्त्वित्यकृताग्रहस्य श्रुतमागमार्थोऽधीयमानः सम्पद्यते, न तु चिन्ताज्ञानभावनाज्ञानरूपज्ञानतां प्रतिपद्यते । इह त्रीणि ज्ञानानि श्रुतज्ञानादीनि । तल्लक्षणं चेदं"वाक्यार्थमात्रविषयं, कोष्ठकगतबीजसन्निभं ज्ञानम् । श्रुतमयमिह विज्ञेयं, मिथ्याभिनिवेशरहितमलम् ॥१॥ यत्तु महावाक्यार्थजमतिसूक्ष्मसुयुक्तिचिन्तयोपेतम् । उदक इव तैलबिन्दुर्विसर्पि चिन्तामयं तत् स्यात् ॥२॥ ऐदम्पर्यगतं यद्विध्यादौ यत्नवत्तथैवोच्चैः । एतत्तु भावनामयमशुद्धसद्रलदीप्तिसमम् ॥३॥" अशुद्धसद्रत्नदीप्तिसममिति अशुद्धस्य मलिनस्य च ततः प्राक् सतः सुन्दरस्य रत्नस्य पद्मरागादेर्दीप्त्या तुल्यमिति । इतरस्य त्विति अभिनिविष्टस्य पुनर्मिथ्याज्ञानं मिथ्याश्रुतरूपतां प्रतिपद्यते । इदमुक्तं भवतिइह कश्चित् ‘एगे आया' इति स्थानाङ्गप्रथमसूत्रस्य श्रवणादेक एव हि भूतात्मा, देहे देहे व्यवस्थितः । एकधा बहुधा वापि, दृश्यते जलचन्द्रवत् ॥१॥ इत्येवं प्रतिपन्नात्माद्वैतवादः सङ्ग्रहनामैकनयाभिप्रायेणेदं सूत्रं प्रवृत्तमिति परमार्थमजानानः, तथाऽत्र मते दृष्टस्य पुरुषनानात्वस्येष्टस्य च संसारापवर्गविभागस्य बाधामपश्यंस्तथाविधज्ञानावरणक्षयोपशमाभावादेकात्मसत्त्वलक्षणमेवैकमर्थमार्गमधितिष्ठते, निराग्रहश्च प्रकृत्या,
SR No.022108
Book TitleUpdeshpad Granth Part 02
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherArihant Aradhak Trust
Publication Year2006
Total Pages538
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy