SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ ૧૬ Gपहेशप : भाग-२ दत्तादानाद् , यद्यपि “पावं छिंदइ जम्हा पायच्छित्तं तु भण्णई तम्हा। पाएण वावि चित्तं विसोहए तेण पच्छित्तं" ॥१॥ इति वचनाद् अपराधशुद्धुपायभूतमनुष्ठानं प्रायश्चित्तमुच्यते, तथाप्युपचारात् प्रायश्चित्तशोध्योऽपराधोऽपि प्रायश्चित्तशब्दवाच्यः, ततः प्रायश्चित्तमस्यास्तीति प्रायश्चित्ती भवानिति कृत्वा 'नो' नैव 'वन्दे' प्रतिवन्दे प्रतिवन्दनं करोमि ते । निशीथेऽप्युक्तम्-"मूलगुणउत्तरगुणे संथरमाणावि जे विसीयंति । ते नहु हुंत वंदणिजा ।" इति ॥३७९॥ गालव उवाच-दत्त यूयमेवेदं मे प्रायश्चित्तम् । आङ्गिरसः-गच्छ एतन्मण्डलाधिपतिनगरे नृपं राजानं 'मग्गाहित्ति याचस्व शुद्धिम् , दुष्टनिग्रहशिष्टपरिपालनयोस्तस्यैव सर्वाश्रमगुरुत्वेनाधिकारित्वात् । गालवः-स राजा दूरे महता व्यवधानेन वर्तत इति न शक्यते तस्य समीपे गन्तुम् । तत आङ्गिरसेन पादलेपः समर्पितो यत्सामर्थ्याद् राजान्तिके गन्तुं शक्यत इत्यस्मात् पादलेपाद् गमनमभूत् । 'नृपमार्गणं' राज्ञः समीपात् प्रायश्चित्तस्य याञ्चा कृता। ततो राजादिष्टैः 'धम्मसत्थि 'त्ति धर्मशास्त्रिभिर्मनुप्रभृतिमुनिप्रणीतधर्मशास्त्रपाठकैः छेदस्तु छेद एव हस्तयोः प्रायश्चित्तमादिष्टम्, न पुनरुपवासादि। लौकिकशास्त्रेषु हि येनाङ्गेन योऽपराधो विहितस्तच्छुद्धौ तदेवाङ्गं निगृह्यत इति ॥३८०॥ ततो हस्तच्छेदानन्तरमागमः प्रत्यावृत्तिराङ्गिरससमीपे । तेनोक्तम्-चीर्णव्रतोऽसि समाचरितप्रायश्चित्तस्त्वमिति विहिता वन्दना, भणितश्च नद्यां स्नानमाचरेति । तुः पादपूरणार्थः । तत्र च स्नातस्य 'हत्थुल्लुज्झण'त्ति हस्तयोरुद्रोहणं-पुनरुद्गमः सम्पनः । तेन च 'साहण'त्ति ज्येष्ठाय साधितं निवेदितं, यथा हस्तौ मम पुनरुद्भूतौ । तेनाप्युक्तं प्राणावुच्छासनिःश्वासौ तयोरायामः सामस्त्येन निरोधः प्राणयामश्चित्तवृत्तिनिरोध इत्यर्थः, तस्मिन् मया कृते सति तथाभावो हस्तयोस्ते सम्पन्नः ॥३८१॥ 'पच्छत्ति पृच्छा कता तेन किं न प्रथमं नदीस्नानात् तथाभावो विहितः? स प्राह-अशुद्धितोऽद्यापि तवाशुद्धित्वात् । यतस्त्वं व्रती इत्यस्मात् स्तोकस्खलनायामपि गुरुदोषो वर्त्तते, "क्रियापथ्याहरणात्' चिकित्साप्रवृत्तावपथ्यासेवनदृष्टान्तात् , न नैवान्यथा हस्तकर्त्तनमपि (? नेनापि) नदीस्नानमन्तरेणापैति त्रुट्यत्यनुबन्धोऽपराधलव इति त्वं मया तदनुष्ठापित इति ॥३८२॥ આંગિરસ અને ગાલવ ગાથાર્થ–મગધ વગેરે કોઈક દેશમાં આંગિરસ અને ગાલવ નામના બે બ્રાહ્મણપુત્રો હતા. પ્રારંભના બે આશ્રમોનું પાલન કર્યા પછી તે બંને વાનપ્રસ્થ થયા. એકવાર કોઈક १. क. 'यद्यपीत्याह पावं छिंदत्ति पावं छिंदइ' ख. ग. घ. 'यदीत्याह पावं छिंदत्ति पावं छिंदइ' ।
SR No.022108
Book TitleUpdeshpad Granth Part 02
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherArihant Aradhak Trust
Publication Year2006
Total Pages538
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy