SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ ૧૭૨ Gपहेशप : भाग-२ तत 'उत्क्षुभ्यमाणो' निन्द्यमानो 'बहुजनधिक्कारितो' धिक्कारमानीतो 'वसनहीनो' वस्त्रविकलो दृष्टः कश्चिदरिद्रः । ततो जनकलोकेन प्रतिषेधः पञ्चमेऽपि व्रते परित्यज्यमाने कृतस्तथा यथा प्राच्येष्विति ॥ ५९१॥ प्राप्तानि ततः सोमाजनकमानुषाणि, एवं पूर्ववत् संविग्नानि प्रतिश्रयसमीपं गणिनीसंनिधानम् । तत्रापि च वैशसमिदं दृष्टमेतैः सोमाजनकमानुषैः सहसेति ॥५९२॥ वैशसमेव दर्शयति-रात्रौ भुञ्जानो भोजनं कुर्वन् । कैरित्याह-मण्डकवृन्ताकैः कश्चिद् नरः पुमान् । किं कृत्वेत्याह-'विञ्चति वृश्चिकं 'छोढूण' क्षिप्त्वा मुखेऽदृष्टकमज्ञातमेव । ततो विद्धकस्ताडितस्तेन वृश्चिकेन ॥ ५९३॥ व्यन्तरजातिविषाद्-भावप्रधानत्वान्निर्देशस्य व्यन्तरजातिविषत्वाद् वृश्चिकस्य, उच्छूनमुखः सम्पन्नः श्वयथुवदनोऽत एव महाव्यसनप्राप्तश्चैकित्सिकपरिकरितो वैद्यसंघातसमन्वितः प्रयुक्तचित्रौषधनिधानः ॥ ५९४॥ _ 'उद्वेल्लमानः कृताङ्गभङ्गो बहुशः सगद्गदं विरसमारटंश्च । दृष्ट इति सम्बध्यते । ततो हा दुष्टमिदं पापं रात्रिभोजनमिति मन्यमानानां तेषां जातः षष्ठे व्रते परित्यागस्य प्रतिषेधः ॥ ५९५॥ अत्रान्तरे सोमयाभिहितमेष त्वेष एवमया गृहीतः, 'प्रायो' बाहुल्येन, धर्मः, अन्येषामपि नियमविशेषाणां केषाञ्चिद्ग्रहणादेवमुक्तमिति । ततश्च ते सोमाजनकलोका आहुर्बवतेपालयेस्त्वं यत्नेन, प्रेक्षामहे, तथाचेति समुच्चये, तां तव गुरुत्वाभिमतां वतिनीमिति ॥५९६॥ ___गमनं प्रतिश्रये चैत्यवन्दनं सन्निहितशय्यातरगृहे चैत्यप्रतिमानाम् । ततः सोमया गणिनीसाधनं यथैष मम गुरुलोक इति । तया गणिन्या 'उचिपडिवत्ती' इति उचितप्रतिपत्त्या पूर्वाभाषणादिकया देशनमकारि । तोषस्तेषां संवृत्तः । धर्मकथा सामान्येन जाता । प्रच्छनं विशेषेण केषाञ्चिदर्थानां तैः कृतम् । कथनं गणिन्या एवं च वक्ष्यमाणनीत्या ॥ ५९७॥ હવે સંગ્રહ ગાથાનો શબ્દાર્થ શ્રીપુર નગરમાં શ્રીમતી નામની વણિક પુત્રી શ્રી જિનશાસનમાં શ્રદ્ધાવાળી શ્રાવિકા હતી. પુરોહિત પુત્રી સોમા તેની બહેનપણી હતી. (૫૫૦) કાળે કરીને તે બંનેની પ્રીતિ
SR No.022108
Book TitleUpdeshpad Granth Part 02
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherArihant Aradhak Trust
Publication Year2006
Total Pages538
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy