SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ ષોડશક પ્રકરણ - ૧૬. : योगदीपिका: उक्ताद्वेषस्यैव तत्त्वज्ञानानुकूलतामभिधातुमाह-अद्वेष इत्यादि । अद्वेषः-पक्षपातकृताप्रीतिपरिहारस्तत्त्वविषयः । जिज्ञासा तत्पूर्विका तत्त्वज्ञानेच्छा। शुश्रूषा बोध-श्रोतःसिराकल्पा तत्त्वजिज्ञासापूर्विका । श्रवणं-तत्त्वशुश्रूषानिबन्धनतत्त्ववचनाकर्णनम् । बोधः श्रवण-निबन्धन-तत्त्व-परिच्छेदः । मीमांसा बोधानन्तर-भावतत्त्व विचाररूपा । ततः श्रवणादिपदानां द्वन्द्वः । परिशुद्धा सर्वतो भावविशुद्धा प्रतिपत्तिः मीमांसोत्तरकालभाविनी 'इदमित्थमेवं' इति निश्चयाकारपरिच्छित्तिः तत्त्वविषयैव । प्रवृत्तिः परिशुद्ध-प्रतिपत्त्यनन्तरभाविनी तत्त्व-विषया क्रिया । प्रवृत्तिशब्दो द्विरावय॑ते, तेनायमर्थः तत्त्वे प्रवृत्तिष्टाङ्गिकी- अष्टाभिरद्धेषादिभिरङ्गैनिर्वृत्ता । तेन मूलागमैकदेशागमे न द्वेषः कार्य इति ॥१४॥ गर्भार्थं खल्वेषां, भावानां यत्नतः समालोच्य । पुंसा प्रवर्तितव्यं, कुशले न्यायः सतामेषः ॥१५॥ :विवरणम् : एवं सद्धर्मपरीक्षकादीन् भावान् प्रतिपाद्य समस्तप्रकरणार्थोपसंहारद्वारेण सदुपदेशदानायाह-गर्भार्थमित्यादि। गर्भार्थ-हृदयगतार्थ भावार्थमिति यावत्, खलुशब्दोऽवधारणे, एषां-प्राक्प्रक्रान्तानां भावानां-पदार्थानां यत्नतः-प्रयत्नात् समालोच्य-सूक्ष्मया प्रज्ञया सम्यगालोच्य गर्भार्थमेवोत्तानभूतमर्थम् । पुंसा-पुरुषेण प्रवर्तितव्यं-प्रवृत्तिविधेया, कुशले पुण्ये कुशलहेतुत्वात् सदनुष्ठाने, न्यायः अविचलितरूपो मार्गः सतां-सत्पुरुषाणां एष वर्तते, नान्यः ॥१५॥ : योगदीपिका : एवं सद्धर्मपरीक्षकादिभावान् प्रतिपाद्य तत्फलोपदेशमाह-गर्भार्थमित्यादि । गर्भार्थ-हृदयगतार्थं, खलु-शब्दोऽवधारणे, एषां प्राक्-प्रक्रान्तानां भावानां यत्नतःप्रयत्नात् समालोच्य-सूक्ष्मप्रज्ञया विचार्य, पुंसा-पुरुषार्थप्रवृत्तेन, कुशले-सदनुष्ठाने, प्रवर्तितव्यं न्यायोऽविचलितमार्गः सतां - सत्पुरुषाणामेष वर्तते, नान्यः ॥१५॥ દુર્ગતિમાં પડતા આત્માને બચાવે તે શ્રુતચારિત્રરૂપ ધર્મનું, આત્માનું હિત ઈચ્છતા ઉત્તમ પુરુષોએ બહુશ્રુતપુરુષો પાસે સતત શ્રવણ કરવું જોઈએ. અથવા આગમરૂપ વચનો નિશ્ચિત મનોહર છે કલ્યાણને કરનારાં છે. તેથી એ વચનોમાં ગર્ભિતરૂપે રહેલાં ધર્મનું શ્રવણ બહુશ્રુતગીતાર્થો પાસે જ કરવું જોઈએ. અબહુશ્રુત પાસે શ્રવણ કરવાથી નુકશાન થવાનો સંભવ છે.
SR No.022106
Book TitleShodshak Prakaran
Original Sutra AuthorN/A
AuthorMitranandsuri, Bhavyadarshanvijay
PublisherPadmavijay Ganivar Jain Granthmala
Publication Year2005
Total Pages242
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy