SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ (१८५ ષોડશક પ્રકરણ - ૧૪ :: योगदीपिका : कस्य पुनर्विशेषेणेदृग् चित्तं स्यादित्याह - एवंविधमित्यादि । एवंविधं एवंस्वरूपंइह-प्रक्रमेचित्तं-मनो भवति प्रायो-बाहुल्येन प्रवृत्तचक्रस्यप्रवृत्तरात्रिन्दिवानुष्ठानसमूहस्य योगिनः शस्तं-प्रशस्तं ध्यानमपि-प्रागुक्तं अस्य तु-अस्यैव अधिकृतं सम्पन्नाधिकारं-इत्याहुः आचार्या-योगाचार्याः ॥१४॥ शुद्धे विविक्त-देशे, सम्यक् संयमित-काय-योगस्य । कायोत्सर्गेण दृढं, यद्वा पर्यङ्कबन्धेन ॥१५॥ विवरणम् : कथं पुनस्तद् ध्यानं देशाद्यपेक्षया भवतीत्याह - शुद्ध इत्यादि। शुद्ध-शुचौ विविक्तदेशे-जनाकीर्णादिरहिते सम्यग-अवैपरीत्येन संयमितकाययोगस्य-नियमितसर्वकाय-चेष्टस्य कायोत्सर्गेण-ऊर्ध्वस्थानरूपेण दृढंअत्यर्थं, यद्वा पर्यडूबन्धेन आसनविशेषरूपेण ॥१५॥ : योगदीपिका : कथं पुनस्तद् ध्यानं देशाद्यपेक्षया भवतीत्याह-शुद्ध इत्यादि । शुद्ध-शुचौ विविक्ते-जनानाकीर्णे देशे सम्यग्-अवैपरीत्येनसंयमितकाययोगस्य नियमितसर्वकायचेष्टस्य कायोत्सर्गेण ऊर्ध्वस्थानरूपेण दृढं-अत्यर्थं, यद्वा पर्यङ्कबन्धेनआसनविशेषरूपेण ॥१५॥ साध्वागमानुसाराच्चेतो विन्यस्य भगवति विशुद्धम् । स्पर्शावेधात्तत्सिद्ध - योगि - संस्मरण - योगेन ॥१६॥ विवरणम् : साध्वित्यादि । साधु यथा भवत्येवम् - आगमानुसारात्-सिद्धान्तानुसारेण चेतःचित्तं विन्यस्य-निक्षिप्य भगवति-जिनेविशुद्धं-विशुद्धिमत्स्पर्श:-तत्त्वज्ञानं तस्यावेधात्संस्कारात् तस्मिन् ध्याने सिद्धा:- प्रतिष्ठिता लब्धात्मलाभा ये योगिनस्तेषां संस्मरण-योगः स्मरणव्यापारस्तेन । यो हि यत्र कर्मणि सिद्धस्तदनुस्मरणं तत्रेष्टफलसिद्धये भवति ॥१६॥ इत्याचार्यश्रीमद्यशोभद्रसूरिकृतषोडशाधिकारविवरणे चतुर्दशोऽधिकारः ॥ પ્રશ્ન: દેશાદિની અપેક્ષાએ આ ધ્યાન કઈ રીતે થાય? ઉત્તર : લોકોની અવરજવરથી રહિત એકાંત અને પવિત્ર જગ્યાએ ધ્યાન થવું જોઈએ. સારી રીતે કાયયોગના સંયમપૂર્વક કાયોત્સર્ગમુદ્રાએ અથવા પદ્માસને બેસી ધ્યાન થાય. સારી રીતે આગમના અનુસારે ચિત્તને જિનેશ્વરભગવંતમાં સ્થાપિત કરી સ્પર્શાવેધથી એટલે કે તત્ત્વજ્ઞાનના સંસ્કારથી ધ્યાનસિદ્ધ યોગીઓનું સ્મરણ કરવાપૂર્વક ધ્યાન કરે; એ ધ્યાન સમ્મધ્યાન
SR No.022106
Book TitleShodshak Prakaran
Original Sutra AuthorN/A
AuthorMitranandsuri, Bhavyadarshanvijay
PublisherPadmavijay Ganivar Jain Granthmala
Publication Year2005
Total Pages242
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy