________________
ષોડશક પ્રકરણ - ૧૩. अभ्यासोऽपि प्रायः प्रभूतजन्मानुगो भवति शुद्धः। कुलयोग्यादीनामिह तन्मूलाधानयुक्तानाम् ॥१३॥
:विवरणम् : 'अभ्यासात् क्रमेण परिणमन्ति' इत्युक्तं, स कथं शुद्ध: ? केषां च भवतीत्याहअभ्यास इत्यादि।
__ अभ्यासोऽपि-परिचयोऽपि प्रायो-बाहुल्येन प्रभूतजन्मानुगः-अनेकजन्मानुगतो भवति-जायते शुद्धो-निर्दोषः कुलयोग्यादीनां-गोत्रयोगि प्रवृत्तचक्रप्रभृतीनां इह-प्रक्रमे तासां-मैत्र्यादीनां मूलाधानं-मूलस्थापनं बीजन्यासस्तद्युक्तानाम् । कुलयोगिलक्षणं चेदं
"ये योगिनां कुले जातास्तद्धर्मानुगताश्च ये।
कुलयोगिन उच्यन्ते, गोत्रवन्तोऽपि नापरे ॥१॥" सामान्येनोत्तमा भव्या गोत्रयोगिनः - सर्वत्राद्वेषिणश्चैते, गुरुदेव-द्विजप्रियाः । दयालवो विनीताश, बोधवन्तो जितेन्द्रियाः ॥१॥" इत्याद्यभिधानात् ॥१३॥
: योगदीपिका : अभ्यासक्रमेण मैत्र्यादिपरिणतिर्भवतीत्युक्तम्, स कथं शुद्धः केषां च स्यादित्याहअभ्यासोऽपीत्यादि।
अभ्यासोऽपि-परिचयोऽपि प्रायो-बाहुल्येन प्रभूत-जन्मानुगो-बहुतरभवानुवृत्तः शुद्धो-निर्दोषो भवति शतक्षारपुट-शोध्यरत्नन्यायेन।कुलयोग्यादीनां गोत्रयोगिव्यतिरिक्तानां कुलयोगि-प्रवृत्तचक्रप्रभृतीनांइह-प्रक्रमे तासां-मैत्र्यादीनां मूलाधानं मार्गानुसारिक्रियाजनितपुण्यानुबन्धिपुण्यलक्षण-बीजन्यासस्तयुक्तानाम् । तत्र गोत्रयोगिनः सामान्येनोत्तमा भव्याः सर्वत्राद्वेषिणः । कुलयोगिनो ये योगिनां कुले जातास्तद्धर्मानुगताश्च । प्रवृत्तचक्राश्च प्रवृत्तरात्रिन्दिवानुष्ठानसमूहा ज्ञेयाः ॥१३॥
પ્રશ્ન: મૈત્યાદિ ભાવનાઓ ક્રમશઃ અભ્યાસથી પરિણમે છે, આત્મસાત્ થાય છે; એમ કહ્યું. તો એ અભ્યાસ કઈ રીતે શુદ્ધ થાય અને કોને શુદ્ધ થાય?
ઉત્તરઃ મૈત્યાદિ ભાવનાઓનો અભ્યાસ અનેક જન્મોથી કરવામાં આવે તો શુદ્ધ થાય છે અને જે કુલયોગી અને પ્રવૃતચક્રયોગીઓમાં મૈત્યાદિ ભાવનાઓનું બીજ પડ્યું હોય તે જીવોને મૈત્રાદિ ભાવનાઓ પરિણમે છે અને શુદ્ધ થાય છે. ૧૩