________________
७४
धर्मणि
२
भाग-२|मध्याय-3|सूत्र-२७
सूत्र:
क्षेत्रवास्तुहिरण्यसुवर्णधनधान्यदासीदासकुप्यप्रमाणातिक्रमाः ।।२७/१६० ।। सूत्रार्थ :
क्षेत्र, वास्तु, हिरण्य-यांही, सोनु,धन, धान्य, Euel, ERध्य-सामग्री सेना प्रभाानो અતિક્રમ પાંચમા અણુવ્રતના અતિચારો છે. ૨૭/૧૬oll टोs:
क्षेत्रवास्तुनोः हिरण्यसुवर्णयोः धनधान्ययोः दासीदासयोः कुप्यस्य च प्रमाणातिक्रमा इति समासः, तत्र 'क्षेत्रं' सस्योत्पत्तिभूमिः, तच्च सेतुकेतूभयभेदात् त्रिविधम्, तत्र सेतुक्षेत्रम्, अरघट्टादिसेक्यम्, केतुक्षेत्रं तु आकाशोदकनिष्पाद्यम्, उभयक्षेत्रं तु तदुभयनिष्पाद्यम् । 'वास्तु' पुनरगारं ग्रामनगरादि च, तत्रागारं त्रिविधम्-खातमुच्छ्रितं खातोच्छ्रितं च, तत्र खातं भूमिगृहादि, उच्छ्रितम् उच्छ्रयेण कृतम्, उभयं भूमिगृहस्योपरि प्रासादः, एतयोश्च क्षेत्रवास्तुनोः प्रमाणस्य क्षेत्रान्तरादिमीलनेन अतिक्रमोऽतिचारो भवति, तथाहि-किलैकमेव क्षेत्रं वास्तु वेत्यभिग्रहवतोऽधिकतरतदभिलाषे सति व्रतभङ्गभयात् प्राक्तनक्षेत्रादिप्रत्यासन्नं तद् गृहीत्वा पूर्वेण सह तस्यैकत्वकरणार्थं वृत्त्याद्यपनयनेन तत् तत्र योजयतो व्रतसापेक्षत्वात् कथञ्चिद्विरतिबाधनाच्चातिचार इति १। तथा 'हिरण्यं' रजतम्, 'सुवर्णं' हेम, एतत्परिमाणस्य अन्यवितरणेनातिक्रमोऽतिचारो भवति, यथा केनापि चतुर्मासाद्यवधिना हिरण्यादिपरिमाणं विहितम्, तत्र च तेन तुष्टराजादेः सकाशात् तदधिकं तल्लब्धम्, तच्चान्यस्मै व्रतभङ्गभयात् प्रददाति 'पूर्णेऽवधौ ग्रहीष्यामि' इति भावनयेति व्रतसापेक्षत्वादतिचार इति २।
तथा 'धनं' गणिमधरिममेयपरिच्छेद्यभेदाच्चतुर्विधम्, तत्र गणिमं पूगफलादि, धरिमं गुडादि, मेयं घृतादि, परिच्छेद्यं माणिक्यादि, 'धान्यं' व्रीह्यादि, एतत्प्रमाणस्य बन्धनतोऽतिक्रमोऽतिचारो भवति, यथा हि किल कृतधनादिपरिमाणस्य कोऽपि लभ्यमन्यद्वा धनादि ददाति, तच्च व्रतभङ्गभयाच्चतुर्मास्यादिपरतो गृहगतधनादिविक्रये वा कृते ग्रहीष्यामीति भावनया बन्धनेन नियन्त्रणेन रज्ज्वादिसंयमनेन सत्यङ्कारदानादिरूपेण वा स्वीकृत्य तद्गेह एव स्थापयतीत्यतोऽतिचारः ३। तथा दासीदासप्रमाणातिक्रम इति, सर्वद्विपदचतुष्पदोपलक्षणमेतत्, तत्र द्विपदं पुत्रकलत्रदासीदासकर्मकरशुकसारिकादि, चतुष्पदं गवोष्ट्रादि, तेषां यत् परिमाणं तस्य गर्भाधानविधापनेनातिक्रमोऽतिचारो भवति, यथा किल केनापि संवत्सराद्यवधिना द्विपदचतुष्पदानां परिमाणं कृतम्, तेषां च संवत्सरमध्य एव प्रसवे अधिकद्विपदादिभावाद् व्रतभङ्गः स्यादिति तद्भयात् कियत्यपि