________________
અષ્ટક પ્રકરણ
८८
પ-ભિક્ષા અષ્ટક
वा दानफलव्यवस्था व्यवहारनयमाश्रित्योक्ता । अथ निश्चयनयमतेनाह- 'आशयात्' अध्यवसायाच्छुभतरेतरादि भेदात्, फलमिति प्रक्रमः, अध्यवसायो हि शुभाशुभफलेषु परमं कारणं वर्तते । आह-"एक्कम्मि वि पाणिवहम्मि, देसियं सुमहंतरं समए । एमेव निज्जरफला, परिणामवसा बहुविहा य" ॥१॥" "निज्जरफलत्ति' तपःप्रभृतय इति । एवं च गर्वमत्सरादिपरिणामतो गुणवतेऽपि पात्राय ददतो न शुभफलम्, अनुकम्पाप्रवचननिन्दारक्षणादिपरिणामात् पुनरगुणवद्दानमपि शुभफलमिति । 'वाशब्दो' विकल्पार्थः, 'अपिशब्दो' भिक्षायाः फलविशेष प्रति कारणान्तरसमुच्चयार्थः, तच्च कारणान्तरं दातव्यविशेषो दानावसरो वा, दातव्यविशेषमाश्रित्योक्तम्, “(समणोवासगस्स णं भंते) तहारूवं समणं वा माहणं वा पडिहयपच्चक्खायपावकम्मं अफासुएणं अणेसणिज्जेणं असण४ पडिलाभेमाणस्स (भंते!)-किं कज्जइ ? गोयमा ! अप्पे पावकम्मे बहुययरा से निज्जरा" ॥" तथा दानावसरमप्याश्रित्योक्तम्- "संथरणम्मि असुद्धं, दुण्हवि गेण्हंतदितयाणहियं । आउरदिट्ठतेणं, तं चेव हियं असंथरणे.५ ॥१॥" एवमनेकविधेषु भिक्षाफलविशेषकारणेषु किमवश्यं फलविशेषसाधकमित्याशङ्कायामाह- 'स विशुद्धः फलप्रदः' सोऽनन्तरोदिताशयः, 'विशुद्धो' निदानादिसकलकलङ्कविकलः, 'फलप्रदः' भिक्षासु विशिष्टस्वर्गापवर्गादिफलसाधको, यतः परिणामोऽन्तरङ्गमिह कारणम् । यदाह-"परमरहस्समिसीणं, समत्तगणिपिडगझरियसाराणं । परिणामियं पमाणं, निच्छयमवलंबमाणाणं ॥१॥" ननूत्प्रव्रजिताः सिद्धपुत्रसारूपिलक्षणा भिक्षाका जिनागमे श्रूयन्ते । यतो व्यवहारचूर्खामुक्तम्- "जो अणुसासिओ न पडिनियत्तो सो सारूवियत्तणेण वा सिद्धपुत्तत्तणेण वा अच्छिउं किंचि कालं, सारूविओ नाम सिरमुण्डो अरजोहरणो अलाउएहि भिक्खं हिण्डइ अभज्जो य, सिद्धपुत्तो नाम सबालओ भिक्खं हिण्डइ वा न वा, वराडएहिं वेंटलियं करेइ लद्धिं (ट्ठि)वा वाव(ध) रेइत्ति ॥" तत एतेषां भिक्षाकाणां कतमा भिक्षा ? तत्र न तावत्सर्वसम्पत्करी तेषामयतित्वात्, नापि पौरुषनी त्यक्तप्रव्रज्यत्वेन प्रव्रज्याविरोधवर्तित्वाभावात्, नापि वृत्तिभिक्षा क्रियान्तरकरणसमर्थत्वात्, भिक्षान्तरस्य चानभिधानादिति । अत्रोच्यते । वृत्तिभिक्षेति सम्भावयामो निःस्वत्वात्तेषां क्रिया४३. एकस्मिन्नपि प्राणिवधे देशितं सुमहदन्तरं समये । एवमेव निर्जरफलानि परिणामवशाद् बहुविधानि च ॥१॥ ४४. तथारूपं श्रमणं वा ब्राह्मणं वा प्रतिहतप्रत्याख्यातपापकर्माणं अप्रासुकेन अनेषणीयेन अशन ४ प्रतिलाभयता किं क्रियते ?
___ गौतम ! अल्पं पापकर्म बहुतरा तस्य निर्जरा ॥ ४५. संस्तरणेऽशुद्धं द्वयोरपि गृह्णदतोरहितम् । आतुरदृष्टान्तेन तदेव हितमसंस्तरणे ॥१॥ ४६. परमरहस्य ऋषीणां समस्तगणिपिटकस्मृतसाराणाम् । पारिणामिकं प्रमाणं निश्चयमवलम्बमानानाम् ॥१॥ ४७ योऽनुशिष्टो न प्रतिनिवृत्तः स सारूपिकत्वेन वा सिद्धपुत्रत्वेन वा स्थित्वा कञ्चित्कालम्, सारूपिको नाम मुण्डशिरा अरजो
हरणः अलावुकैः भिक्षां हिण्डते अभार्यश्च (भवति), सिद्धपुत्रो नाम सवालः भिक्षां हिण्डते वा न वा, वराटकैः वेण्टलिका करोति लब्धिं (यष्टिं) वा व्यापा(धारयति इति ॥ समान रूपं सरूपं तेन चरतीति सारूपिकः ।। रजोहरणवर्जसाधुवेषधारी गृहस्थः । मुण्डितशिराः शुक्लवासःपरिधायी कच्छामवमानोऽभार्यो भिक्षां हिण्डमानः सारूपिक उच्यते ॥ मुंडसिराया सुक्किल्लवस्थधरो नवियच्छं । हिंडइ नवा अभज्जो सारूवी एरिसो होइ ॥१॥ इत्यादिस्वरूपमन्यत्र ॥x मुंडः सशिखाकः सभार्यको गृहस्थविशेषः सिद्धपुत्रः ॥ सभार्यकोऽभार्यको वा णियमा सुक्कंबरधरो खुरमुंडो ससिहो असिहो वा णियमा अडंडगो अपत्तगो य सिद्धपुत्तो भवति ॥२॥ इत्याद्यन्यत्र ।