________________
અષ્ટક પ્રકરણ
૧-મહાદેવ અષ્ટક
देवश्चेति 'महादेवः', 'स' इति असावेव, 'उच्यते'ऽभिधीयते महादेवस्वरूपवेदिभिर्न पुना रागादिरिपुपराकृतपराक्रम इति ।
अथ सर्वप्राणिनां रागादिमत्त्वोपलब्धेर्न सर्वथा तदभावः कस्यापि सम्भवतीति । नैवम् । सर्वप्राणिनामनुपलब्धेः प्रति नियतप्राण्युपधेश्च व्यभिचारित्वात्, किञ्च स्वात्मन्यपि क्वचिद्विषयविशेषे रागाद्यभावदर्शनात्कस्यापि सार्वदिकः-(देहिकः) सार्वत्रिकः सर्वथा च रागाद्यभावो भवन् न विरुध्यते । आह च"दृष्टो रागाद्यसद्भावः, क्वचिदर्थे यथात्मनः । तथा सर्वत्र कस्यापि, तद्भावे नास्ति बाधकम् ॥१॥" तथा रागादयो भावाः सम्भाव्यमानसर्वथाक्षयाः, देशतः क्षयोपलव्धेः । ये पौद्गलिकभावा अल्पबहुबहुतरादिक्षयेण देशतः क्षयवन्तस्ते सर्वतः क्षयवन्तोऽपि दृष्टाः, यथा रविकरावारिका घनपङ्क्तयः । देशतः क्षयवन्तश्च रागादयोऽतः सम्भाव्यमानसर्वथाक्षया इति । आह च-“देशतो नाशिनो भावा, दृष्टा निखिलनश्वराः । मेघपङ्क्त्यादयो यद्व-देवं रागादयो मताः ॥१॥"
अथ सम्भवत्यात्यन्तिकरागाद्यभावे तस्य चित्तवृत्तिरूपत्वेन दुर्विज्ञेयत्वात्कथं तद्वान् पुरुषविशेषोऽवगन्तव्य इति । अत्रोच्यते, तस्य रू (स्वरू)पाच्चरिताच्च । तथाहि-यस्य रूपमकामिनीकमनायुधमनक्षमालं, चरितं च शृङ्गारादिरसापरिकरितमेकान्तशान्तरसानुरञ्जितमजेयान्तरारिजयवन्नासमञ्जसं च स एवासाविति प्रतिपत्तव्यम् । यदाह-"रागोऽङ्गनासङ्गमनानुमेयो, द्वेषो द्विषद्दारणहेति (तु) गम्यः । मोहः कुवृत्तागमदोषसाध्यो, नो यस्य देवः स स चैवमर्हन् ॥१॥" तथा "शृङ्गारादिरसाङ्गारै-र्न दूनं देहिनां हितम् । एकान्तशान्ततोपेत (ताह्येव)-मार्हतं (मर्हतां) वृत्तमद्भुतम् ॥१॥" देवतान्तराणां तु रागाद्यभावानुचितरूपचरितत्वं सुप्रसिद्धमेव । तथाहि-"ब्रह्मा लूनशिरा हरिशि सरुग् व्यालुप्तशिश्नो हरः सूर्योऽप्युल्लिखितोऽनलोऽप्यखिलभुक् सोमः कलङ्काङ्कितः । स्वर्नाथोऽपि विसंस्थुलः खलु वपुःसंस्थैरुपस्थैः कृतः, सन्मार्गस्खलनाद्भवन्ति विपदः प्रायः प्रभूणामपि ॥१॥" तथा "यद् ब्रह्मा चतुराननः समभवद्देवो हरिर्वामनः, शक्रो गुह्यसहस्रसङ्कलतनुर्यच्च क्षयी चन्द्रमाः । यज्जिह्वादलनामवापुरहयो राहुः शिरोमात्रतां तृष्णे देवि विडम्बनेयमखिला लोकस्य युष्मत्कृता ॥१॥"
__ तथा ब्रह्मा लूनशिरा इत्येतत्कथम् ? अत्रोच्यते-किलैकदा त्रयस्त्रिंशद्देवकोट्यो मिलिताः । तत्र च ते परस्परं मातापितृवर्णनं कुर्वन्ति स्म । तत्र च तैरुक्तं अहो महेश्वरस्य न ज्ञायते मातापितराविति न तावस्य बभूवतुः । इदं च देववचनमुपश्रुत्य ब्रह्मणः पञ्चममुखेन गर्दभमुखाकारेण समत्सरमभिहितम् । यदुत मय्यपि सर्वपदार्थज्ञातरि जीवति सति क एवं ब्रुवते यथा महेश्वरस्य पितरौ न ज्ञायते यतोऽहं जानामि । ततस्तस्य तौ वक्तुमारेभे । ततो महेश्वरेणाप्रकाश्यप्रकाशनारम्भनात् कुपितेन कनिष्ठिकानखशुक्तिकरवालव्यापारणेन निखिलसुरसमूहसमक्षं झटिति निकृत्तं तद् ब्रह्मणो गर्दभशिर इति ॥ एवं ब्रह्मा लूनशिराः ॥
अन्ये त्वाहुः, किल ब्रह्मवासुदेवयोरात्ममहत्त्वविषयो विवादः समजनि । विवदन्तौ च तौ महादेवमुपस्थितौ । महादेवेन चाभिहितौ अलं भवतोर्विवादेन, य एव मदीयलिङ्गस्यान्तं लभते, स एव युवयोर्महांस्तदन्यस्त्वितर इति । ततो वासुदेवो लिङ्गस्यान्तोपलम्भार्थमधस्ताद्गतवान् । स च प्रभूतं यावन्महावेगेन