________________
અષ્ટક પ્રકરણ
૨૨૦
૧૯-મદ્યપાનદૂષણ અષ્ટક
સંન્યાસાશ્રમ વગેરે નિરવદ્ય છે. એ ઇષ્ટ નથી. હવે જો બીજો પક્ષ છે તો માંસભક્ષણ સાવદ્ય હોવાથી દોષિત સિદ્ધ 25 14. (८)
અઢારમાં માંસભક્ષણ દૂષણ નામના અષ્ટકનું વિવરણ પૂર્ણ થયું.
॥१९॥ अथ एकोनविंशतितमं मद्यपानदूषणाष्टकम् ॥ न मांसभक्षणे दोष इति निराकृतम्, अथ न मद्ये इत्येतन्निराकरणायाहमद्यं पुनः प्रमादाङ्ग, तथा सच्चित्तनाशनम् । सन्धानदोषवत्तत्र, न दोष इति साहसम् ॥१॥
वृत्तिः- मदयतीति 'मद्यं' शीधुः, 'पुनः' शब्दः पूर्ववाक्यार्थापेक्षयोत्तरवाक्यार्थस्य विशेषद्योतनार्थः, तथाहि, मांसं जीवसंसक्तिनिमित्तं मद्यं पुनः, 'प्रमादाङ्गम्,' प्रमदनं प्रमादोऽशुभो जीवपरिणामविशेषः, तस्याङ्गं कारणम्, अथवा प्रमादो मद्यादिः । यदाह-"मज्जं विसयकसाया, निद्दा विगहा य पंचमी भणिया। एए पंच पमाया, जीवं पाडंति संसारे ॥१॥" तस्याङ्गमवयवः, पञ्चावयवरूपत्वात्तस्य, 'तथा' इति विशेषणसमुच्चये, सच्छुभं यच्चित्तं मनः तन्नाशयति प्रध्वंसयतीति 'सच्चित्तनाशनम्,' तथा सन्याने जलमिश्रितबहुद्रव्यसंस्थापने ये दोषा जीवसंसक्त्यादयस्ते विद्यन्ते यत्र तत् "सन्धानदोषवत्,' यदेवंविधं मद्यं 'तत्र' मद्ये, 'न' नास्ति, 'दोषो' दूषणं कर्मबन्धादि, 'इति' एवं, वदत इति गम्यते, ‘साहसं' धा_म् । अथवा 'तत्र' मद्ये गुडधातक्यादिसन्धानरूपे न दोषोऽस्ति पापप्राप्तिलक्षणः, क इवेत्याह'सन्धानदोषवत्' काञ्जिकादिसन्धानदोषवत्, अयमभिप्रायः, यथारनालादौ सन्धानवति पीयमाने कर्मबन्धलक्षणो दोषो नास्त्येवं मद्येऽपि दोषो नास्तीति, एतद्वचनस्य च साहसत्वं चित्तभ्रमनिबन्धनानामतिबहूनां मद्यपानदोषाणां प्रत्यक्षत एवोपलभ्यमानत्वात् । यथोक्तम्-"'वैरूप्यं व्याधिपिण्डः 'स्वजनपरिभवः कार्यकालातिपातो, "विद्वेषो ज्ञाननाशः "स्मृतिमतिहरणं विप्रयोगश्च सद्धिः । पारुष्यं नीचसेवा "कुलबलतुलना धर्मकामार्थहानिः, १४-१५-१६ कष्टं भोः षोडशैते निरुपचयकरा मद्यपानस्य दोषाः ॥१॥
- ઓગણીસમું મદ્યપાન દૂષણ અષ્ટક (કેટલાક માંસભક્ષણની જેમ મદ્યપાનને પણ નિર્દોષ માને છે. આથી આ અષ્ટકમાં મદ્યપાનથી થતા દોષો બતાવવા પૂર્વક મદ્યપાનથી ઋષિઓનું પણ અધ:પતન થાય છે એ વિશે દૃષ્ટાંત જણાવીને મદ્યપાન દૂષિત छ में सिद्ध थु छ.)
માંસભક્ષણમાં દોષ નથી એ મતનું નિરાકરણ કર્યું. હવે મધમાં દોષ નથી એ મતનું નિરાકરણ કરવા भाटे छ
२. मद्यं विषयकषाया, निद्रा विकथा च पञ्चमी भणिता । एते पञ्च प्रमादा जीवं पातयन्ति संसारे ॥१॥