SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ અષ્ટક પ્રકરણ ૨૧૪ ૧૮-અન્યશાસ્ત્રોક્તમાંસભક્ષણદુષણ અષ્ટક બાકીના ત્રણ પાદો કહ્યા છે. भडाणवाणी छ– सम्युय कोरे भोट। ३१वाणी छे. (२) योऽसौ स्वयमुदीरितो मांसशब्दार्थस्तमाहमां स भक्षयिताऽमुत्र, यस्य मांसमिहादम्यहम् । एतन्मांसस्य मांसत्वं, प्रवदन्ति मनीषिणः ॥३॥ वृत्तिः- 'माम्' इति भक्षक आत्मानं निर्दिशति, 'स' इति भक्ष्यमाणो जीवः, 'भक्षयिता' इति श्वस्तनीप्रथमपुरुषैकवचननिर्देशः, ततो भक्षयिष्यत इत्यर्थः, न त्वयं शीलार्थिकः, 'अमुत्र' जन्मान्तरे, किंविधो य इत्याह- 'यस्य' पश्चादेः, 'मांसं' पिशितम्, 'इह' अस्मिन् जन्मनि, 'अद्मि' भक्षयामि, 'अहम्' इत्यात्मानं भक्षको निर्दिशति, 'एतद्' अनन्तरोदितम्, भक्षणेन भक्षणलक्षणम्, 'मांसस्य' पिशितस्य, 'मांसत्वं' मांसशब्दव्युत्पत्तिनिमित्तम्, निरुक्तमित्यर्थः, 'प्रवदन्ति' प्रतिपादयन्ति, 'मनीषिणः' निरुक्तविधिकुशला इति ॥३॥ પોતે માંસ શબ્દનો જે અર્થ કહ્યો છે માંસશબ્દના તે અર્થને કહે છે– શ્લોકાર્થ– ટીકાર્થ- અહીં હું જેના માંસનું ભક્ષણ કરું છું તે પરલોકમાં મારું ભક્ષણ કરશે. આ માંસ शनी व्युत्पत्तिथी (=निस्तिथी) थतो 'मर्थ छ. अभ युद्धिजीमो (=निहित ४२वामां दुशण पुरुषो) प्रतिपादन ७२ छ. (3) एतेन च मांसभक्षणापायप्राप्तिप्रतिपादनेन मांसभक्षणे दोषोऽस्तीति वक्तव्यमेवोक्तमतः कथमुक्तं "न मांसभक्षणे दोष" इत्येतदेवाह इत्यं जन्मैव दोषोऽत्र, न शास्त्राद् बाह्यभक्षणम् । प्रतीत्यैष निषेधश्च, न्याय्यो वाक्यान्तराद् गतेः ॥४॥ वृत्तिः- 'इत्यम्' अनेन प्रकारेण, भक्षकस्य भक्षणीयत्वप्राप्तिलक्षणेन, यद् 'जन्म' उत्पत्तिस्तद्, 'एव' किमपरदोषगवेषणेन, 'दोषो' दूषणम्, अनर्थावाप्तिरित्यर्थः, 'अत्र' मांसभक्षणे, ततः कथमुक्तम् "न मांसभक्षणे दोषः" इति हृदयम् । अत्र किल परः प्राह- 'न' नैव, यदक्षकस्य भक्षणीयत्वप्राप्तेर्मांसभक्षणे दोष इति, कुत इत्याह- यतः, 'शास्त्राद्' आगमात्, ‘बाह्यभक्षणं' बहिर्भूतमांसादनम्, 'प्रतीत्य' आश्रित्य, 'एषो'ऽनन्तरोक्तः इत्यंजन्मलक्षणो दोषः, न पुनः शास्त्रीयमांसभक्षणे, तथा 'निषेधश्च' मांसभक्षणप्रतिषेधोऽपि, "मां स भक्षयिता" इत्यादिनिरुक्तबलप्रापितः, शास्त्राबाह्यभक्षणमेव प्रतीत्य, 'न्याय्य' उपपन्नः, कथं ? 'वाक्यान्तरात्' "मां स भक्षयिता" इत्यादिवाक्यापेक्षया यदन्यद् वाक्यं तद् वाक्यान्तरं तस्मात्, 'गतेः' परिच्छित्तेः, मांसभक्षणस्येति गम्यम् । अथवा, इत्यं 'जन्मैव दोषोऽत्र' इत्येकं तावत् १. मनस्मृति-म. ५-9405 3५.
SR No.022090
Book TitleAshtak Prakaran
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherArihant Aradhak Trust
Publication Year
Total Pages354
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy