________________
અષ્ટક પ્રકરણ
૧૬૯
૧૩-ધર્મવાદ અષ્ટક કરે.” આનાથી વિપરીત દશ કુશળધર્મો છે. વૈદિકો આ પાંચને બ્રહ્મશબ્દથી કહે છે. (૨)
यद्येतानि पवित्राणि ततः किमित्याहक्व खल्वेतानि युज्यन्ते, मुख्यवृत्त्या क्व वा न हि । तन्त्रे तत्तन्त्रनीत्यैव, विचार्यं तत्त्वतो ह्यदः ॥३॥ धर्मार्थिभिः प्रमाणादे-लक्षणं न तु युक्तिमत् । प्रयोजनाद्यभावेन, तथा चाह महामतिः ॥४॥
वृत्तिः- 'क्व' कस्मिन्, तन्त्रे इति योगः, 'खलु' वाक्यालङ्कारे, ‘एतानि' अनन्तरोदितानि अहिंसादीनि, 'युज्यन्ते' घटन्ते, 'मुख्यवृत्त्या' अनुपचारेण, क्व वा कस्मिन् वा तन्त्रे, 'न हि' नैव, युज्यन्ते इत्यनुवर्तते, 'तन्त्रे' बौद्धादिसिद्धान्ते, कथं युज्यन्ते कथं वा न युज्यन्ते इत्याह- तस्यैव बौद्धादेस्तन्त्रस्य शास्त्रस्य नीतिरात्मादिपदार्थानां सत्त्वासत्त्वनित्यानित्यत्वादिका व्यवस्था 'तत्तन्त्रनीतिः, तया एव, न तु शास्त्रान्तरनीत्या, एकशास्त्रोक्तप्रकाराणां ह्यहिंसादीनामन्यशास्त्रन्यायेनायुज्यमानतायाः स्फुटमेव प्रतीयमानत्वादिति, किमित्याह- हिशब्दस्यैवकारार्थत्वात्, ‘अदः एव' एतदेवानन्तरोक्तम्, 'विचार्य' विचारणीयम्, 'तत्त्वतः' परमार्थेन, वस्त्वन्तरविचारणे धर्मवादाभावप्रसङ्गात्, कैर्विचार्यमित्याह- 'धर्मार्थिभिः' धार्मिकैः । उक्तविपर्ययमाह- 'प्रमाणस्य' प्रत्यक्षादेः, आदिशब्दात् प्रमेयस्य आत्मादेः, 'लक्षणं' तदन्यव्यवच्छेदकं स्वरूपम्, यथा “स्वपरावभासिज्ञानं प्रमाणम्' इत्यादि, 'तुशब्दः' पुनरर्थः, 'न' नैव, 'युक्तिमत्' उपपत्त्युपेतम्, विचार्यमाणमिति शेषः, केन हेतुना इत्याह- प्रयोजनं फलं तदादिर्यस्योपायादेस्तत्प्रयोजनादिस्तस्याभावोऽसत्ता प्रयोजनाद्यभावस्तेन प्रमाणलक्षणविचारणस्य 'प्रयोजनाद्यभावेन' हेतुना इत्यर्थः, प्रयोगश्चात्रैवम्- प्रमाणादिलक्षणविचारणं न युक्तिमत्, प्रयोजनाभावात्, यद्यत्प्रयोजनादिरहितं तत्तन्न युक्तिमत्, यथा कण्टकशाखामर्दनम्, प्रयोजनादिरहितं च प्रमाणादिलक्षणविचारणम्, इति तन्न युक्तिमत्, न चायमसिद्धो हेतुः, सिद्धसेनसूरिवचनप्रतिष्ठितत्वादस्य, एतदेवाह- 'तथा चाह महामतिः', 'तथा च' तेनैव प्रमाणनिष्प्रयोजनत्वेन, 'आह' बूते, इह तत्कालापेक्षो वर्तमाननिर्देशः, कोऽसावित्याह- 'महामतिः' अतिशयवत्प्रज्ञः सिद्धसेनाचार्य इत्यर्थ इति ॥३-४॥
જો આ પવિત્ર છે તો શું કરવું જોઇએ તે કહે છે –
શ્લોકાર્થ- ધર્માર્થીઓએ પરમાર્થથી આ પાંચ કયા દર્શનમાં મુખ્ય વૃત્તિથી ઘટે છે અને ક્યા દર્શનમાં नथी घटता मे तेना ४ ॥स्त्रनी थी वियर जोस. (3)
ટીકાર્થ– તેના જ શાસ્ત્રની નીતિથી-બૌદ્ધ વગેરે પ્રતિવાદીના જ શાસ્ત્રોની ( શાસ્ત્રોમાં કહેલી) આત્મા વગેરે પદાર્થોની સત્ત્વ, અસત્ત્વ, નિત્યત્વ, અનિત્યત્વ આદિ જે વ્યવસ્થા હોય તે વ્યવસ્થાથી જ (eતે ૧. અહીં ધર્માર્થીઓએ એવું પદ ચોથા શ્લોકમાંથી લીધું છે.