________________
અષ્ટક પ્રકરણ
૧૨૫
૯-શાન અષ્ટક
હેય-ઉપાદેયના તાત્ત્વિક વિવેકપૂર્વક હેયથી નિવૃત્તિ અને ઉપાદેયમાં પ્રવૃત્તિ કરાવનાર જ્ઞાન તત્ત્વસંવેદન.)
महर्षिोभमुनिमो. मात्रय शान हो मा हनन विशेष (=ही) ४ छ. (१) आद्यस्वरूपमाहविषकण्टकरत्नादौ, बालादिप्रतिभासवत् । विषयप्रतिभासं स्यात्, तद्धेयत्वाद्यवेदकम् ॥२॥
वृत्तिः-विषं च शङ्गिकादि, कण्टकाश्च बब्बूलाद्यवयवविशेषा इति हेयं वस्तु, रत्लानि च मरकतादीनि चोपादेयम्, विषकण्टकरत्नानि तानि आदिर्यस्य तत्तथा, तत्र 'विषकण्टकरत्नादौ' द्रष्टव्ये, इहादिशब्दाद्धेयोपादेयरूपवस्त्वन्तरपरिग्रहः, उपेक्षणीयपरिग्रहो वा, बालः शिशुरादिर्येषां ते बालादयः, आदिशब्दादतिमुग्धपरिग्रहः, तेषां प्रतिभासो वस्तुबोधः, बालादिप्रतिभासः, स इव 'बालादिप्रतिभासवत्' तत्तुल्यमित्यर्थः, “विषयप्रतिभासं' उक्तनिर्वचनं ज्ञानम्, 'स्यात्' भवेत् । कथं बालादिप्रतिभासतुल्यत्वमस्येत्याह- तेषां ज्ञेयविषयाणाम्, 'हेयत्वादि' हेयत्वमुपादेयत्वमुपेक्षणीयत्वं चेत्यर्थः, तस्यावेदकमनिश्चायकं, 'तद्धेयत्वाद्यवेदकम् । यथा बालादिप्रतिभासो विषादिविषयस्य रूपादिमात्रमेवाध्यवस्यति न तु हेयत्वादिकं तद्धर्मम्, एवं यत् ज्ञानं बहुश्रुतानामप्यभिन्नग्रन्थीनां मोहमलमलीमसमानसत्वेनातत्त्वानां हेयतायास्तत्त्वानां चोपादेयताया विमर्शाक्षमं तत्त्वातत्त्वयोः समतावभासकं विपर्ययावभासकं वा तद्विषयप्रतिभासमिति भावना । उक्तं च-"विसयपडिभासमित्तं, बालस्सेवक्खरयणविसयंति । वयणाइएसु (वयणा इमेसु इत्युपदेशपदे) नाणं, सव्वस्थण्णाण मो णेयम् ॥२॥१॥" 'वयणाइएसु' ति सूत्रार्थादिष्वति ॥२॥
પહેલા જ્ઞાનનું સ્વરૂપ કહે છે
શ્લોકાર્થ– બાળક આદિને થતા વિષ, કંટક, રત્ન આદિના જ્ઞાનની જેમ શેયવસ્તુના હેયપણા આદિને न ४९uवनार न विषयामास छ. (२)
ટીકાર્થ– બાળક આદિને એ સ્થળે આદિ શબ્દથી અતિમુગ્ધ જીવનું ગ્રહણ કરવું. વિષ=ઈંગિક વગેરે ઝેર. (ગિક એક જાતનું ઝેર છે.) કંટક બાવળ વગેરેના કાંટા. ર=મરકત વગેરે રત્નો.
“રત્ન આદિના” એ સ્થળે આદિ શબ્દથી હેય-ઉપાદેય એવી અન્ય વસ્તુઓનું ગ્રહણ કરવું. અથવા ઉપેક્ષણીય વસ્તુનું ગ્રહણ કરવું.
“હેયપણા આદિન” એ સ્થળે આદિ શબ્દથી ઉપાદેયપણાનું અને ઉપેક્ષણીયપણાનું ગ્રહણ કરવું. ७२. विषयप्रतिभासमात्रं बालस्येवाक्षरलविषयमिति । वचनादिकेषु (वचनात् एषु इत्युपदेशपदवृत्तिः) ज्ञानं सर्वत्राज्ञानमेव ज्ञेयम् ।।१।।