SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ श्रामण्योपनिषद् इत्युपाधिपरिशुद्धं, नवगुप्तिसुगुप्तकम् । सम्यक् चर्यं ब्रह्मचर्यं शिवसञ्चरदीपकम् ॥४॥ ४६ , ॥ युग्मम् ॥ रसना करणग्रामे, मनोगुप्तिश्च गुप्तिषु । व्रतेषु ब्रह्मचर्यं च दुर्धरं विनिदर्शितम् ॥५॥ विश्वंभराभरः सूह्यः, सूह्यः शिलोच्चयोच्चयः । दुरुह्यो ब्रह्मभारस्तु, धुर्याणामपि दुर्वहः ॥ ६ ॥ मोक्षो यस्य फलं जन्म - जरामरणवर्जितः । परमानन्दरूपस्तद्, दुष्करं किमिहाद्भुतम् ? ॥७॥ ये कान्तकलहाः सेर्ष्याः, पिशुना नव नारदाः । तेऽप्यहो! यान्ति यन् मुक्तिं, तत्र ब्रह्मैव कारणम् ॥८ ॥ देवदानवगन्धर्वा, रक्षोयक्षाः सकिन्नराः । ब्रह्मचरान् नमस्यन्ति, दुश्चरं ये चरन्ति तत् १ ॥९॥ १. उत्तराध्ययने ॥ १६-१६॥
SR No.022076
Book TitleShramanyopnishad
Original Sutra AuthorN/A
AuthorKalyanbodhisuri
PublisherJinshasan Aradhana Trust
Publication Year2010
Total Pages144
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy