________________
श्रामण्योपनिषद् चित्तमन्तर्गतं दुष्टं, तीर्थस्नानैर्न शुद्ध्यति । शतशोऽपि जलैधौतं, सुराभाण्डमिवाशुचि ॥२॥
जलेनैव यदि शुद्धिस्तदा मत्स्याश्च कच्छपाः । यास्यन्ति प्रथमं स्वर्ग, पश्चादन्यो गमिष्यति ॥३॥
अङ्गं हिंसादिभिर्दुष्टं, वचोऽप्यलीकभाषणैः । दुश्चिन्ताभिस्तथा चित्तं, गङ्गा तस्य पराङ्मुखी ॥४॥
परदारपरद्रव्य-परद्रोहपराङ्मुखः । गङ्गाप्याह कदाऽऽगत्य, मामसौ पावयिष्यति ? ॥५॥
भावं विशोधयेत्तस्मात्, किमन्यैर्बाह्यशोधनैः । भावतः संविशुद्धात्मा, स्वर्ग मोक्षं च विन्दति ॥६॥