SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ ४८ पञ्चसूत्रोपनिषद् (३) किञ्चावश्यकोऽत्र हृदयबहुमानात्मकः सत्कारः । सेवितो हि बाढमादरपुरस्सरं मोहः सुदीर्घकालं यावत् । अत एव नोद्विज्यतेऽत्यन्तं दुःखमयादप्येतस्मात्संसारात् । अत स्तदपाकरणाय सद्दर्शनादिः शुद्धधर्मोऽनुष्ठातव्यो बहुमानसारम् एवमेव मोहह्रासक्रमेण भवाभावसम्भवात् । ___ (४) तथा धर्मश्रुत्यादावावश्यकं विध्यनुपालनम् । न ह्यादरेण सन्ततं सेवाप्रवृत्तोऽपि विध्यनभिज्ञः पुत्र आवर्जयति पितरम् । नापि कालानुपानयतनाकुपथ्यपरिहारादिविधि सेवनमन्तरेणौषधमपि विधत्ते कञ्चिद् गुणम् । एवं धर्मानुष्ठानेऽप्यूह्यम् । . अत्रौचित्यं सर्वत्राप्यावश्यकम्, तद्यथा-जीविकायाम्, उचितलोकव्यवहारानुपालने, भाषाव्यवहारे, भोजनप्रवृत्तौ, कुटुम्बादिसम्भावने - इत्यादि । सातत्यार्थं तु तत्तज्ज्ञानादिप्रवृत्ती नित्यं नियतकालं वा यतनीयम् । न ह्यन्यथा तत्संस्कारदाढयमिति प्रतीतम् । आदरसम्पादनार्थं कर्त्तव्या धर्मधर्मिगोचरा महार्यरत्ननिधानवत् प्रीतिः । विधेयस्तत्कथानुरागः | परिहार्या तन्निन्दाश्रुतिः । अनुकम्प्यास्तन्निन्दकाः । मन्तव्यः संसारसारतया धर्मः । भाव्यं धर्मावाप्त्यत्युत्सुकेन । उद्यन्तव्यं तदर्थम् । अनुभवितव्यस्तदवाप्तौ सम्भ्रमो रोमाञ्चश्च । मन्तव्योऽनेनाऽऽत्मा सौभाग्यशाली । परिहार्यं तद्बाधनिबन्धनम् । विध्यनुपालनार्थं यतितव्यं कालस्थानासनमुद्राऽऽलम्बनप्रभृत्यनुपालने । सेवितव्या अष्टप्रकारोपेता ज्ञानाचारादयः | कर्त्तव्यस्तपोवीर्याचारविधिः । चिन्तनीया धर्मशून्येषु दया,
SR No.022074
Book TitlePanchsutrop Nishad
Original Sutra AuthorN/A
AuthorBhuvanbhanusuri, Kalyanbodhisuri
PublisherJinshasan Aradhana Trust
Publication Year2010
Total Pages324
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy