SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ પંથસૂત્રોપનિષદ્ર પ્રસાદી ० क्षुद्रता हि बलात्पातयत्येवानेकदोषनिकुरम्बकर्दम इति हृदयम् | (पीठिका) ० तृष्णैव भयजीवनम् (पीठिका) ० जिनाज्ञायां भावप्रतिबन्ध एव सद्दर्शनपीठिका । (पीठिका) ० न हि दुर्गुणतया भावरिपुरयं ममेति परिचयमेति रागः प्रायः | _ (प्रथम सूत्रम्) ० न हि शुद्धापि धर्माराधनाऽनादिकुवासनासम्मार्जने प्रत्यलाऽन्तरेण सर्वगमौचित्यानुपालनम् । (प्रथम सूत्रम्) यथैव शुभानुबन्धेनानन्तः संसारः, तथैव शुभानुबन्ध-प्रकर्षतोऽनन्तो मोक्ष इति तात्पर्यम् । (प्रथमसूत्रम्) ० शिवफलप्रदकल्पतरुकल्पा हि जिनाज्ञा । (द्वितीयसूत्रम्) ० कल्याणमित्रगोचरपक्षपातातिशयेन हि शतधा फलति सत्सङ्गः | (द्वितीयसूत्रम्) ० क्रियैवानेकबाधायोनिः, तद्विरहे कुतो बाधाया गन्धोऽपीति । (तृतीयसूत्रम्) ० किञ्च तात्त्विको विरागस्त्याजयत्येवाचारित्रमयं गृहवासम् । (तुर्यसूत्रम्) ० एवं गुरुबहुमानविरहे सकष्टापि चरणक्रिया न मोक्षफला, अपि तु भवबम्भ्रमणपर्यवसनेति तात्पर्यम् । (तुर्यसूत्रम्) ० पदे पदे जिनवचःपुरस्करणं बीजं कल्याणपरम्परायाः । (तुर्यसूत्रम्) ० न हि पाण्डित्यं सज्ज्ञानम्, अपि त्वल्पाऽपि शुद्धसंवित्ति-परिणतिरिति ध्येयम् । (तुर्यसूत्रम्) ० सर्वथानौत्सुक्ययोगेनैवाखण्डितसुखावियोगः सम्भवी । (पञ्चमसूत्रम्)
SR No.022074
Book TitlePanchsutrop Nishad
Original Sutra AuthorN/A
AuthorBhuvanbhanusuri, Kalyanbodhisuri
PublisherJinshasan Aradhana Trust
Publication Year2010
Total Pages324
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy