SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ ३४ पञ्चसूत्रोपनिषद् गन्धोऽपीत्यतो यतितव्यमस्याम्, श्रीवीरनाथवत्, तथा ह्यनेन प्रियमित्रचक्रि-नन्दनराजर्षिभवयोरुत्तरोत्तरविशुद्धतराराधनाक्रमेणाराधकभावविशुद्ध्याऽवाप्तं तीर्थकृत्त्वमिति । अथ पापप्रतिघात - गुणबीजाधानाभिधं प्रथमं सूत्रम् णमो वीअरागाणं सब्बण्णूणं देविंदपूइआणं ज़हट्ठिअवत्थुवाइणं तेलुक्कगुरुणं अरुहंताणं .. भगवंताणं ।।१।। वीतरागेभ्यः सर्वज्ञेभ्यो देवेन्द्रपूजितेभ्यो यथा स्थितार्थवादिभ्यस्त्रैलोक्यगुरुभ्योऽरुहद्भ्यो भगवद्भ्यो नमः | अथ पञ्चसूत्रम् । अत्रादिमं वाक्यं मङ्गलम् । कर्त्तव्यं चैतत् । विघ्ननिघातनिपुणत्वात्तस्य, श्रेयसां च विघ्नबहुलत्वात्, यदुक्तम् - श्रेयांसि बहुविघ्नानि भवन्ति महतामपि । अश्रेयसि प्रवृत्तानां क्वापि यान्ति विनायका: -इति । अतः कर्त्तव्यं मङ्गलम्, तच्चेष्टदेवतास्मरणेन तन्नमस्कारतो वा सम्भवति । सर्वश्रेष्ठेष्टदवता तु देवाधिदेवो वीतरागोऽर्हत्परमात्मेति तद्गोचर एकोऽपि नमस्कारो विनाशयति विघ्नशतानि ।
SR No.022074
Book TitlePanchsutrop Nishad
Original Sutra AuthorN/A
AuthorBhuvanbhanusuri, Kalyanbodhisuri
PublisherJinshasan Aradhana Trust
Publication Year2010
Total Pages324
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy