SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ २४१ पञ्चसूत्रोपनिषद् एतदपि नियुक्तिकम्, स्वरूपविगमप्रसक्तेः । आकाशपुष्पवदसत्त्वापत्तेः । किञ्च चिद्रूपताऽप्यात्मनि तदेव सम्भवति यदा तस्मिन् ज्ञानं स्यात् । तच्च विषयानभ्युपगमे दुर्घटम् । तथा सर्वजीवानां शुद्धैकब्रह्मरूपताऽभ्युपगमात् सर्वजीवात्मलयमन्तरेणासम्भविन्येकतमस्यापि मुक्तिरिति । ____ मोक्षस्वरूपे बौद्धमतम् - क्षणिकस्यात्मनः संसारकालीना विज्ञानक्षणसन्ततिर्विषयाकारेण कलुषिता भवति । सा च स्वच्छीभूय निराकारचित्सन्ततितया निर्विषयत्वेन निरूपप्लवतामुपेता मोक्षः । यद्वा विज्ञानक्षण सन्तत्यत्यन्तोच्छेदो मोक्षः | एतदप्यसारम्, निर्विषयस्य ज्ञानत्वायोगात् । सतोऽत्यन्तोच्छेदासम्भवात्, सर्वनाशरूपाया मुक्तेरस्पृहणीयत्वाच्च । ___ मोक्षस्वरूपे पाश्चात्यदर्शनानि - जीवस्वरूपमेव स्वतन्त्रं न विद्यते । नास्यानादिबद्धत्वादिकमप्यत एवाभ्युपेयते । आदमइव युगलाज्जीवात्मोद्भवोऽभूत् । यदा चेश्वरस्यास्थान्यां.. सर्वजीवा मिलष्यन्ति तदा न्यायः करिष्यते । ततश्च मूलतः स्वर्ग-नरक-मृत्युलोक-व्यवस्था भविष्यति । एतदपि तर्कविरुद्धमिति प्रत्यक्षमीक्ष्यतेऽपकर्णनीयमेतत्, नियतवस्तुस्वरूपाप्तदर्शकत्वात्, मोक्षस्वरूपाज्ञापकत्वाच्च । मोक्षस्वरूपेऽवतारवादः - मुक्ता अपि धर्मग्लानिमपाकर्तुं पुनः संसारेऽवतरन्तीति । तदेतद्विरुद्धतरम्, माता मे वन्ध्येतिवत्, जन्मप्रयोजककर्मादितः सर्वथा विरहितस्य जन्मायोगात्, सजन्मनश्च
SR No.022074
Book TitlePanchsutrop Nishad
Original Sutra AuthorN/A
AuthorBhuvanbhanusuri, Kalyanbodhisuri
PublisherJinshasan Aradhana Trust
Publication Year2010
Total Pages324
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy