SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ पञ्चसूत्रोपनिषद् २१३ पुनरपि तमेव विशेषयति - रागाऽऽमयवैद्यः, वैराग्यविग्रहस्यास्य तादृशा तपश्चरणज्ञानयोगा भवन्ति, ये विदधन्ति परेषामपि रागरोगचिकित्साम् । प्रतिष्ठापयन्ति परेषामपि हृदि विरागभावम् । . किञ्चैष द्वेषानलजलनिधिः, उपशमरसैकरसीभूततन्मुद्रावचनयोर्तेषदवानलप्रशमनिबन्धनत्वात्, अत एवायं संवेगसिद्धिकरः । स्वयमप्येष जीवति धर्मजीवनम् । अवगणयति विषयसौख्यानि | धारयति निर्विकारे नयने । विभ्राजतेऽध्यात्मतेजसा । भापयति मोहान्धान् स्वकीयसुदुष्कराराधनादर्शनेन | प्रसारयति जिनवचःजाह्नवीम् । एवञ्च परेषामपि साधयत्येष संवेगम्, जनयति तेषु मोक्षाभिलाषप्रकर्षम्, प्रसूतेतरां च शुद्धधर्मस्वरसमित्यर्थः । ' तमेव विशेषयति - अचिन्त्यचिन्तामणिकल्पः, मोहनाशादिहेतुतयैकान्तसुखकारणत्वात्, न हि मोहादिसद्भावे तात्त्विकं सुखमुदेति जातु । दोषोपशमानुभावेनानुभूयते चिन्तातीतं सौख्यम् । तदेतदचिन्त्यसिद्धिप्रापको महात्माऽचिन्त्यचिन्तामणिसम इति युक्तमुक्तम् | सूत्र : स एवं परंपरत्थसाहए तहाकरुणाइभावओ, अणेगेहिं भवेहिं विमुच्चमाणे पावकम्मुणा, पवड्ढमाणे अ सुहभावेहिं, अणेगभविआए आराहणाए पाउणइ सव्वुत्तमं भवं चरम, अचरमभवहेउं, अविगलपरंपरत्थनिमित्तं । तत्थ काउण निरवसेसं किच्चं विहूअरयमले सिज्झइ, बुज्झई, मुच्चई, परिनिव्वाई, सव्वदुक्खाणमंतं करेइ ।
SR No.022074
Book TitlePanchsutrop Nishad
Original Sutra AuthorN/A
AuthorBhuvanbhanusuri, Kalyanbodhisuri
PublisherJinshasan Aradhana Trust
Publication Year2010
Total Pages324
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy