SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ पञ्चसूत्रोपनिषद् २०२ (४) भाव्यं सदारम्भेण । श्रुतस्वाध्याय - आवश्यकप्रतिलेखना-विहारप्रभृतयो मुनीनां सदारम्भाः । एतत्प्रवृत्तिविरहे तु विकथाद्यनर्थपात इति भावनीयम् । (५) सदारम्भोऽपि हितानुबन्ध्येव कर्त्तव्यः । एतदर्थं निराशंसतया निरतिचारमाराधनाऽऽवश्यका । भावयितव्या निरन्तरं वैराग्यमैत्रीप्रभृतयो भावनाः । भावप्रतिबन्धः कर्त्तव्यो जिनाज्ञायाम् । पदे पदे जिनवचःपुरस्करणं बीजं कल्याणपरम्परायाः । अतो हितानुबन्ध्येतत् । । एवमभिन्नवृत्तत्वादिविशिष्टः शुक्ल उच्यते । शुक्लाभि - जात्यस्तु विशिष्टतरोक्तगुणसम्पन्नतया शुक्लजीवेषु प्रधानभूतः । सूत्र : पायं छिण्णकमाणुबंधे खवइ लोगसणं, पहिसोअगामी, अणुसोअनिवित्ते, सया सुहजोगे एस जोगी वियाहिए | स च प्रायश्छिन्नकर्मानुबन्धो भवति । तत्सत्तागतकर्मसु स्वोदयकाले नवकर्मबन्धप्रयोजिका शक्तिर्व्यवच्छिन्ना भवतीति भावः । यथा श्रमणस्य भगवतो महावीरस्य कर्णशलाकोपसर्गनिबन्धनं कर्म व्युच्छिन्नबीजशक्तिकतया नवकर्मबन्धनिबन्धनं न बभूवेति । प्रायोग्रहणमचिन्त्यत्वात्कर्मशक्तेः समर्थसानुबन्धकर्मोदये कदाचिद् बध्नात्यपि । उक्तोऽनुबन्धविच्छेदः प्रागुक्ततेजोलेश्याशुक्लत्व प्रयोजकगुणगणमूलकः । एतत्प्रतिपक्षदोषैस्तु पुष्टिरेवाशुभकर्मानुबन्धानाम् । स एवम्भूतो व्यवच्छिन्नानुबन्धः क्षपयति भगवद्वचनप्रतिकूलां
SR No.022074
Book TitlePanchsutrop Nishad
Original Sutra AuthorN/A
AuthorBhuvanbhanusuri, Kalyanbodhisuri
PublisherJinshasan Aradhana Trust
Publication Year2010
Total Pages324
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy