SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ १९६ पञ्चसूत्रोपनिषद् पुष्टिप्रदभोज्यस्थानीयं चारित्रम्, हालाहलस्थानीया तु जिनाज्ञाविराधना, धर्मप्राणनिर्नाशनहेतुत्वात् ।..... ... एतदेवाह - आवर्त एव तत्फलम्, आवर्त्तन्ते प्राणिनोऽस्मिन्नित्यावर्त्तः संसारः, स एव तत्त्वतस्तत्फलं विराधनाविषजन्यम्, किंविशिष्ट आवत इत्याह - अशुभानुबन्धः, तथा तथा विराधनोत्कर्षेण, भवान्तरेष्वप्यतो विराधनावृद्धिर्भवतीति हृदयम् । एवं सफलं गुर्वबहुमानमभिधाय तद्बहुमानमाह - __गुरुबहुमानः -- गुरुभावप्रतिबन्धः, एष एव आयतः, दीर्घकालजीवित्वात्, भवान्तरीयगुरुबहुमानप्राप्तौ वर्तमानस्य गुरुबहुमानस्यामोघकारणत्वात् । अपि चायमानयति विशिष्टतरमपि गुरुबहुमानम् ।......... · द्रद्र(२) अतो हि परमगुरुलक्षणस्य परमात्मनः संयोगः, ततश्चासंशयं सिद्धिः । एवञ्च गुरुबहुमानो मोक्षस्यावन्ध्यनिबन्धनतया मोक्षः, कारणे कार्योपचारात् । अत्र साद्यपर्यवसितत्वेन दीर्घत्वादायतो मोक्षः । तद्धेतुर्गुरुबहुमानः; मोक्षं प्रत्यप्रतिबद्धसामर्थ्ययोगेन । . ...... ........ - किञ्च शुभोदयो गुरुबहुमानः, तत्प्रभवत्वात्तस्य । न चायं सकृदेव शुभोदयहेतुः, अपि तूत्तरोत्तर विशिष्टतराऽऽराधनाप्रयोजकतया विशिष्टतरशुभोदय-परम्पराजनकः । एवञ्चसाधारणानुपमकारणे कार्यव्यपदेशस्य न्यायोपपन्नतया गुरुबहुमाने शुभोदयव्यपदेशः कृतः, घृतमायुरितिवत् । तथाः शुभोदयवृद्धिप्रयोजकतया भवव्याधिचिकित्सको भवति
SR No.022074
Book TitlePanchsutrop Nishad
Original Sutra AuthorN/A
AuthorBhuvanbhanusuri, Kalyanbodhisuri
PublisherJinshasan Aradhana Trust
Publication Year2010
Total Pages324
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy