SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ पञ्चसूत्रोपनिषद् १८५ प्रोक्तोपायादृत्या स्वभावगता भवेदात्मनो गुणाः । शुभसामग्रीमन्तरेणापि प्रकटितो भवेदात्मनि ज्ञानदीपकः । ततश्चपुरःस्थितेष्वपि मनोज्ञविषयेषु विरागदाढर्यप्रकर्षतो न मनस्यपि विकारस्स्यात् । क्रोधावसरे विचिन्त्यम्, यथा शत्रुरपि कर्मक्षपणसहायतया मित्रमेवेति किमस्मै कुपितव्यम् ? अपि तु स्वपापेन भ्रमिष्यत्येष संसारम्, अतोऽनुकम्प्योऽयम् । किञ्च यद्यहं कोपं करिष्यामि, तथापि (१) अवश्यं भोक्तव्यान्येव मया पूर्वोपार्जितानि कर्माणि । (२) तत्रापि कोपप्रयुक्तो भविष्यति नवः कर्मबन्धः । (३) पुनर्नवीभविष्यन्ति दृढतां गमिष्यन्ति च कषायादिकुसंस्काराः (४) हारयिष्यामि मनुजभवप्राप्तः क्षमाभ्यासावसरम् (५) क्रोधं करिष्यता मया परस्याप्येतेऽपाया विधास्यन्ते । अहोऽनर्थनिकुरम्बं कोपहेतुकमिति विचार्य भूयात् समशत्रुमित्रः । - प्रागुक्तोपायनवकसेवनसाधनपञ्चकम् - (१) सदापि धर्त्तव्योऽप्रमत्तभावान्वयः । (२) भेतव्यं पुद्गलपरिचयमात्रात् । (३) इष्टेतरोभयसंयोगेषु समास्थेयं माध्यस्थ्यसुस्थितेन । (४) भावयितव्यं निर्विकारत्वादिवैशिष्ट्यविशिष्टमात्मस्वरूपम् (५) कर्त्तव्यस्तपःसंयमस्वाध्याययोगेषु निरन्तरः पुरुषार्थः । एवमध्यवसायविशुद्धिक्रमेण क्षपकश्रेणिसमारोहणेन क्षायिकचरण-क्षायिकज्ञानलक्षणौ प्राप्येतेऽस्पन्दनवद्द्वीपस्थिरदीपौ । (९) असम्भ्रमत्वादियोगः सूत्र : जहासत्तिमसंभंते अणूसगे असंसत्तजोगाऽऽराहए
SR No.022074
Book TitlePanchsutrop Nishad
Original Sutra AuthorN/A
AuthorBhuvanbhanusuri, Kalyanbodhisuri
PublisherJinshasan Aradhana Trust
Publication Year2010
Total Pages324
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy