SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ १६६ पञ्चसूत्रोपनिषद् परिग्रहविषयसेवनस्वच्छन्दाहारादयः । परोपकारस्तत्त्वभूतः । अतत्त्वभूता तु स्वार्थान्धता । तत्त्वभूतान्यहिंसादिधर्मस्थानानि । अतत्त्वरूपाणि तु हिंसादिपापस्थानकानि । तत्त्वभूता ज्ञानादिक्षायिका धर्माः । अतत्त्वभूतास्तु ऋद्ध्यादिगौरवप्रभृतय औदयिका धर्माः । - तदेतानतत्त्वभूतानवगणय्य तत्त्वैकोपासनापरोभवति श्रमणः | विस्मृत्य देहमात्ममात्र विश्रान्तमस्य लोचनम् । आत्मविशुद्धिं मार्गयत्येषोऽनवरतम् । अन्वेषयति ज्ञानादिपर्यायवृद्धिमभीक्ष्णम् । प्रयतते शुभध्यानाय । पराक्रमते तपःकर्मणि । उपेक्षते देहपरिकर्माणि । विचारयत्यङ्गस्यानित्यभावम् । भावयति देहार्थकृतपापप्रवृत्त्याहितकुवासनाभिः प्रतिभवमात्मनो दारुणदुःखविडम्बनागोचरीकरणम् । एवं विविच्य तत्त्वातत्त्वेऽवलम्बते तत्त्वमेव । उदधिनिमज्जितः कश्चिद्यथाऽवलम्बतेऽनन्यशरणतया यानपात्रम्, तथा भूतार्थदर्शी श्रमणः सेवते गुरुकुलवासम् । भवत्यसौ गुरुप्रतिबद्धः | उद्यच्छति तद्विनये । विचारयत्येषः - नेतोऽपि परं किञ्चिद्धितम् - इति । सूत्र : सुस्सूसाइगुणजुत्ते तत्ताभिनिवेसा विहिपरे परमंतोत्ति अहिज्जइ सुत्तं बद्धलक्खे आसंसाविप्पमुके आययट्ठी । . गुरुशुश्रूषादिगुणगणालङ्कृतस्तत्त्वैकाऽऽग्रहो विधितत्परः श्रमणोऽध्येति सूत्रम् । ततश्च विजानात्यधिकतरं सर्वज्ञोक्तं तत्त्वं तदुपदिष्टं मार्गं च । तथा श्रुतोपयोगसातत्येन निरुणद्धि पापविकल्पान्, रक्षत्यात्मानं दुर्ध्यानात् । शुश्रूषादयो बुद्धिगुणाः,
SR No.022074
Book TitlePanchsutrop Nishad
Original Sutra AuthorN/A
AuthorBhuvanbhanusuri, Kalyanbodhisuri
PublisherJinshasan Aradhana Trust
Publication Year2010
Total Pages324
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy